________________
उत्तराध्ययन
॥ ५५ ॥
३
१२
शङ्कातङ्काकुलो बलम् ॥ १५ ॥ इत्थं विश्वत्रयस्यापि, क्षोभो यत्क्रीडयाप्यभूत् ॥ स नेमिरावयो राज्यं गृह्णन्केन निषेत्स्यते ? ॥ १६ ॥ बभाषे सीरभृद्धात-र्मा शंकिष्ठा वृथाऽन्यथा ॥ अस्यास्मद्धातुरुक्तं हि स्वरूपं प्रागु जिनैरिदम् ॥ १७ ॥ द्वाविंशोऽरिष्टनेम्यर्हन्, यदुवंशाब्धिचन्द्रमाः ॥ अभुक्तराज्यलक्ष्मीकः, प्रत्रज्यां प्रतिपत्स्यते ! ॥ १८ ॥ किञ्चार्थमानोपि सदा, समुद्रविजयादिभिः ॥ युवाऽपि नो कनीमेका-मप्युद्वहति यः सुधीः ! ॥ १९ ॥ आददीत स किं राज्य - मिदं नेमिर्महाशयः ? ॥ तेनेत्युक्तोऽपि नाशंकां, हरिस्तत्याज तां हृदः ॥ २० ॥ उद्याने च गतं नेमिमन्यदेति जगाद सः ॥ नियुद्धं कुर्वहे भ्रात- रावां शौर्य परीक्षितुम् ॥ २१ ॥ ऊचे नेमिर्नियुद्धं नौ, न युक्तं प्राकृतोचितम् ॥ मिथो बलपरीक्षा तु, बाहुयुद्धेन भाविनी ! ॥ २२ ॥ तत्प्रपद्य निजं बाहुं, हरिः परिघसोदरम् ॥ प्रासारयद्वासवेश्म, भरतार्द्धजयश्रियः ॥ २३ ॥ तद्दोर्मदेन सत्रा तं नमयित्वाऽजनालवत् ॥ खदोर्दण्डं विभुर्वज्र - दण्डोद्दण्डमदीर्घयत् ॥ २४ ॥ तं च न्यञ्चयितुं सर्व, स्वसामर्थ्य समर्थयन् ॥ विलग्नः केशवः शाखा - विलग्नशिशुवद्वभौ ॥ २५ ॥ राज्यमादित्सते यो हि स सामर्थ्ये सतीशे ॥ नेयच्चिरं विलम्बेत, दध्याविति तदा हरिः ! ॥ २६ ॥ राज्यापहारचिन्तामि - त्यपहाय गृहं गतः ॥ समुद्रविजयेनैव - मन्यदाऽभाणि माधवः ॥ २७ ॥ खस्खस्त्रीभिः समं वीक्ष्य, कुमारान् क्रीडतोऽखिलान् ॥ नेमिं चान्यादृशं दृष्ट्वा भृशं खिद्यामहे वयम् ॥ २८ ॥ कन्योद्वाहं तदस्मै त्वं वत्सोपायेन केनचित् ॥ वैद्योऽरोचकिने भोज्यं भेषजेनेव रोचय ! ॥ २९ ॥ तत्प्रपद्य मुकुन्दोऽपि दिव्यास्त्राणि मनोभुवः ॥
द्वाविंशम
ध्यथनम् श्रीनेमिना - चरित्रम् ३१६-३२९
UTR-3