SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन द्वाविंशमध्ययनम्. (२२) श्रीनेमिना थचरित्रम् | २५५-२६९ मुमुदे नृपः ॥ अयाचताऽन्यदा तां च, मणिशेखरखेचरः ॥ ५५ ॥ तं जितारिर्जगौ नैषा, शङ्खादन्यं वुवूर्षते ॥ ततोऽकनीयःकामासौ, कनी ते दीयते कथम् ? ॥ ५६ ॥ सोऽन्यदा तां ततोऽहार्षी-त्सह पार्श्वस्थया मया ॥ असाध्यः कुग्रह इवा-ऽऽग्रहः प्रायो हि रागिणाम् ! ॥ ५७ ॥ मां तु तद्धात्रिकामत्र, हित्वा तामनयत्वचित् ॥ ततो रोदिमि वीराहं, भविष्यति कथं हि सा ? ॥ ५८ ॥ धैर्य वीकुरु तं जित्वा-ऽऽनेष्ये तां कन्यकामहम्॥इत्युक्त्वा गहने भ्राम्यन् , प्रातः सोऽगाद्गिरौ क्वचित् ॥ ५९॥ शङ्ख एव विवोढा मे, मूढ ! किं क्लिश्यसे मुधा ? ॥ इति खेचरमाख्यांती, सोऽ पश्यत्तत्र तां कनीम् ॥६॥ ताभ्यामदर्शि शंखोऽपि, स्मित्वा स्माहाथ खेचरः ॥ मुमूर्षुः सोऽयमत्रागा-चं वुवूपसि रे जडे! ॥ ६१॥ अमुं त्वदाशया साकं, हत्वा नेष्ये यमौकसि ॥ त्वां च प्रसह्योदुखाशु, मुदा सह निजौकसि ॥ ६२ ॥ तदाकर्ण्य तमूचेथ, शंखोप्युत्तिष्ठ पाप रे ! ॥ परनारीरिरसां ते, हरामि शिरसा समम् ॥ ६३ ॥ खङ्गाखङ्गि ततोऽकार्टी, चिरं तौ घातवञ्चिनौ ॥ ज्ञात्वाथ दुर्जयं शंखं, विद्यास्त्रैः खेचरो न्यहन् ॥ ६४ ॥ तानि न प्राभवंस्तत्र, पुण्याड्ये वाडवेऽम्बुवत् ॥ कुमारोऽथाऽऽच्छिनच्चापं, युद्धश्रान्तान्नभश्चरात् ॥६५॥ तद्वाणेनैव शंखेन, खेचरः प्रहतोथ सः ॥ मुमूर्छ तत्कृतैः शीतो-पचारैश्चाभवत्पटुः ॥ ६६ ॥ भूयो युद्धाय शंखेनो-त्साहितश्चैवमत्रवीत् ॥ केनाप्यनिर्जितो दोष्मन् !, साध्वहं निर्जितस्त्वया!॥ ६७॥ वीर्यक्रीतोऽस्मि दासस्ते, मंतुमेनं क्षमस्व मे ॥ शंखोप्युवाच त्वद्भक्त्या, तुष्टोऽस्मि ब्रूहि कामितम् ॥६८॥ सोऽवादीन्नित्यचैत्यानां, नत्यै मेऽनुग्रहाय च ॥ एहि पुण्याढ्य ! वैताढ्यं, UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy