SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥ ५१ ॥ १२ शंखोऽपि तदमन्यत ॥ ६९ ॥ गुणैः समत्रैरुत्कृष्टं तं च प्रेक्ष्य यशोमती ॥ भर्त्ता मया वृतः श्रेष्ठ, इत्यन्तर्मुमुदे भृशम् ॥ ७० ॥ तदाजग्मुः खेचराश्च, मणिशेखरसेवकाः ॥ तेषु द्वौ प्रेष्य सेनां स्वां, शंखः प्रपीन्निजे पुरे ॥ ७१ ॥ आ खेचरैस्तत्र, प्राग्दृष्टां धात्रिकां तु ताम् ॥ धात्रीकनीखेचरयुग्, वैताढ्ये भूपभूर्ययौ ॥ ७२ ॥ तत्र शाश्वतचैत्यस्थाप्रणम्याऽऽनर्थ सोऽर्हतः ॥ खपुरे तं च नीत्वोच्चै -रानर्च मणिशेखरः ॥ ७३ ॥ परेपि खेचरास्तत्र, प्रीता वैरिजयादिना ॥ पत्तीभूय कुमाराय ददुर्निजनिजाः सुताः ॥ ७४ ॥ यशोमतीमुदुद्यैव परिणेष्यामि वः सुताः ॥ शङ्खस्तानि - त्यवक् सा हि, तस्य प्राग्भवगेहिनी ॥ ७५ ॥ स्वस्खपुत्रीरथादांय, यशोमत्या सहान्यदा ॥ मणिशेखरमुख्यास्तं, चम्पां निन्युर्नभश्चराः ॥ ७६ ॥ खपुत्र्या खेचरेन्द्रैश्च, सह श्रीषेणनन्दनम् ॥ ज्ञात्वाऽऽयान्तं मुदाऽभ्येत्य, जितारिः खपुरेऽनयत् ॥ ७७ ॥ यशोमतीं खेचरीश्च तत्र शङ्ख उपायत ॥ श्रीवासुपूज्यचैत्यानां भक्त्या यात्रां च निर्ममे ॥ ७८ ॥ विसृज्य खेचरांस्तत्र स्थित्वा कांश्चिद्दिनांश्च सः ॥ पत्नीभिः सह सर्वाभि र्हस्तिनापुरमीयिवान् ॥ ७९ ॥ शंखं राज्ये - ऽन्यदा न्यस्या - ssददे श्रीषेणराडु व्रतम् ॥ ततः सोऽपालयद्राज्यं, वज्रीव प्राज्यवैभवः ॥ ८० ॥ तत्र श्रीषेणराजर्षिरन्यदा प्राप्तकेवलः ॥ विहरन्नागमत्तं च गत्वा शङ्खनृपोऽनमत् ॥ ८१ ॥ श्रुत्वा च देशनां मोह - पङ्कप्लावनवाहिनीम् ॥ मुक्तिकल्पलताबीजं, वैराग्यं प्राप शङ्खराट् ॥ ८२ ॥ राज्यं प्रदाय पुत्राय, तत्पार्श्वे प्रात्रजच्च सः ॥ मतिप्रभेणामात्येन, यशोमत्या च संयुतः ॥ ८३ ॥ क्रमाच्च श्रुतपारीणः, कुर्वाणो दुस्तपं तपः ॥ स्थानैरर्हद्भक्तिमुख्यै - रार्जयजिन द्वाविंशमध्ययनम् श्रीनेमिना चरित्रम् २७०-२८४ UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy