________________
उत्तराध्ययन ॥४१॥
द्वाविंशमध्ययनम्. श्रीनेमिनाथचरित्रम् १२७-१४१
प्रयुक्तोऽपराजितः ॥ विघ्नो मा भूत्प्रयाणस्ये-त्यनुक्त्वा निरगान्निशि ॥ १२७॥ गच्छंश्च विपिने हा! हा!, नि:रोर्वीति रोदनम् ॥ आकर्ण्य करुणं वीर-स्तं शब्दमनु सोऽगमत् ॥१२८ ॥ अग्रे चैकां ज्वलज्ज्वाला-जिह्वोपान्ते स्थितां स्त्रियम् ॥ नरं चैकं समाकृष्ट-करवालं ददर्श सः॥ १२९ ॥ योऽत्र वीरः स मामस्मा-त्पातु विद्याधराधमात् ॥ इति भूयस्तदाक्रन्दत् , श्येनात्ता वर्तिकेव सा !॥ १३० ॥ अथेत्यूचे कुमारस्त-मरे ! सजो भवाजये ॥ अबलायां बलमदः, किं दुर्मद करोषि रे ! ॥१३१॥ सार्थः प्रेत्यगतौ भीरो-रस्यास्त्वं भवितासि रे ! ॥ब्रुवन्निति ततः सोऽपि, डुढौके योद्धमुद्धतः॥१३२ ॥ खडाखजि चिरं कृत्वा, तो मिथो घातवञ्चिनौ ॥ दोयुद्धेन न्ययुध्येतां, कम्पयन्तौ दुमानपि ॥ १३३ ॥ नागपाशैर्बबन्धाथ, तं पुन्नागं स खेचरः ॥ तांश्च सोऽत्रोटयत्तूर्ण, जीर्णरजूरिव द्विपः ॥ १३४॥ विद्याधरोऽथ विद्यास्त्रैः, प्रजहारापराजितम् ॥ तानि न प्राभवन्पुण्य-बलाढ्ये तत्र किंचन ! ॥ १३५ ॥ अथोदिते रवी मूर्तीि, कुमारेणासिना हतः ॥ पपात मूर्छितः पृथ्व्यां, सद्यो विद्याधराग्रणीः ॥ १३६ ॥ खस्थीकृत्य पुनर्योदूं, कुमारेणोदितस्ततः॥ उवाच खेचरः साधु, मामजैषीमहाभुज!॥ १३७ ॥ विद्यते मित्र ! वस्त्रान्त-ग्रन्थौ मे मणिमूलिके ॥ पृष्ट्वाऽम्बुना मणेर्देहि, प्रहारे मम मूलिकाम् ॥ १३८ ॥ कुमारोऽपि तथा चक्रे, खेचरोऽप्यभवत्पटुः ॥ पृष्टोऽपराजितेनेति, खवृत्तान्तं जगाद च ॥ १३९ ॥ असावमृतसेनस्य,सुता विद्याधरप्रभोः ॥ रत्नमालाभिधा शालिगुणरजालिमालिनी ॥ १४॥ रक्ताऽपराजिते भावि-भर्तरि ज्ञानिनोदिते ॥ अभ्यर्थिता मयाऽन्येधु-विवाहायैव
UTR-3