________________
उत्तरध्ययन ॥१२॥
द्वाविंशमध्ययनम्
(२२) श्रीनेमिनाथचरित्रम् १४२-१५४
मब्रवीत् ॥ १४१ ॥[युग्मम् ] भत्ताऽपराजितो मे स्था-दहेन्मां दहनोऽथवा!॥ तदाकण्योऽकुपं चूर-कान्तः श्रीषणसूरहम् ॥ १४२ ॥ विद्या बढीः कृतेऽमुष्या, दुःसाधा अप्यसाधयम् ॥ एनां च बहुधाऽयाचं, नत्वियं माममानयत् ॥ १४३ ॥ अथास्याः पूर्यतां वहि-दाहात्सन्धेतिधीः क्रुधा ॥ एनामिहानयं हत्वा, हत्वामी श्रममुद्यतः! ॥ १४४ ॥ अस्या मम च पुण्यौधे-राकृष्टेन त्वया पुनः ॥ मत्तोऽसौ रक्षिताऽहं च, सीहत्याभाविदुर्गः ॥१४५॥ परं परोपकारिन् ! त्वं, कोऽसीति ब्रूहि सन्मते ! ॥ तेनेत्युक्तेऽवदद्भूप-भुवो नामादि मंत्रिसूः ॥ १४६ ॥ तदाकर्ण्य तदा रन-मालाऽन्तर्मुमुदेऽधिकम् ॥ कामं कामपृषक्तानां, गोचरत्वमियाय च ॥ १४७ ॥ गवेषयन्ती तां तत्रा-5गातां तत्पितरौ तदा ॥ यथावृत्तमथावादी-त्पृच्छन्तो मत्रिसूस्तयोः ॥ १४८ ॥ ततस्तो मुदितौ भूप-भुषेऽदत्तां निजागजाम् ॥ अभयं सूरकान्ताया-ऽर्पयतां तद्विरा पुनः ॥॥ १४९ ॥ ते मणीमूलिके वेषा-न्तरदा गुटिकास्तथा ॥ कुमारे निःस्पृहे सूर-कान्तो मंत्रिभुवे ददौ ॥ १५०॥ गते मयि निजं स्थान-मानेयाऽसौ खनन्दना ॥ इत्युक्त्वाऽमृतसेनाय, भूपभूः पुरतोऽचलत् ॥ १५१॥ तं कुमारं स्मरन्तस्ते, खस्थानं खेचरा ययुः ॥ कुमारोऽपि पुरो गच्छनटव्यां तृषितोऽभवत् ॥ १५२ ॥ निवेश्य तं च चूताधो-मात्यभूरम्भसे गतः ॥ प्रत्यायातस्तदादाय, तत्र मित्रं न दृष्टवान् ॥ १५३॥ सोऽथ शोकाकुलो मित्र-मन्वेष्टुं सर्वतो भ्रमन् ॥ मूर्छितो न्यपतलब्ध-संज्ञस्तु व्यलपद्धशम्
१ परोपकारी 'घ' पुस्तके ॥ २ कामबाणानाम् ॥
UTR-3