________________
उत्तराध्ययन ॥३९८॥
षत्रिंशमध्ययनम्.
गा १७७. १८०
व्याख्या-पूर्वकोटीपृथक्त्वं द्विप्रभृत्यानवभ्यः, तत इहाष्ट पूर्वकोटयः कायस्थितिलचराणां, इयती चैषां कायस्थितिरित्थं स्यात् , पञ्चेन्द्रियतिर्यगनृणां उत्कृष्टतोऽप्यष्टैच निरन्तरा भया भवन्ति तदायुर्मीलने च एतावत्य एव पूर्वकोट्यः स्युन चैतेषु युगलिनः स्युर्येनोक्तविरोधः स्यादिति ॥ १७६ ॥ मूलम्-अणंतकालमुक्कोसं, अंतोमुहुत्तं जहन्नगं । विजढंमि सए काए, जलयराणं तु अंतरं ॥१७७॥
स्थलचरानाहमूलम्-चउप्पया य परिसप्पा, दुविहा थलयरा भवे। चउप्पया चउविहा, ते मे कित्तयओ सुण॥१७८॥
__एगखुरा दुखुरा चेव, गंडीपय सणप्पया । हयमाई गोणमाई, गयमाई सीहमाइणो ॥१७९॥
व्याख्या-एकखुरा हयादयः, द्विखुरा गवादयः, गण्डी पद्मकर्णिका तद्वदृत्ततया पदा येषां ते गण्डीपदा गजादयः, 'सणप्पयत्ति' सनखपदाः सिंहादयः, हयमाई-इत्यादि व्याख्यातमेव ॥ १७९ ॥ परिसर्पानाहमूलम्-भुओरपरिसप्पा उ, परिसप्पा दुविहा भवे।गोहाई अहिमाई अ, एकेकाऽणेगहा भवे ॥१०॥
व्याख्या-'भुओरपरिसप्पत्ति' परिसर्पशब्दस्योभयत्र योगात् भुजाभ्यां परिसर्पन्तीति भुजपरिसर्पाः गोधादयः । उरसा परिसर्पन्तीति उरःपरिसाः सर्पादयः । ते च एकैकाः प्रत्येकमनेकविधा भवेयुः गोधेरकनकुलादिभेदैर्गोनसादिभेदैश्च ॥ १८॥
UTR-3