________________
उत्तराध्ययन ॥ ३८६ ॥
१२
१५
१८
२१
व्याख्या - अत्र ' रुक्खत्ति' वृक्षाः चूतादयः ॥ १ ॥ गुच्छा वृन्ताकिप्रमुखाः ॥ २ ॥ गुल्मा नवमालिकाद्याः ॥ ३ ॥ लताश्चम्पकलतामुख्याः ॥ ४ ॥ वल्यस्त्रपुषीप्रभृतयः ॥ ५ ॥ तृणानि जुञ्जकार्जुनादीनि ॥ ६ ॥ ९४ ॥ मूलम् — वलयलया पचगा कुहणा, जलरुहा ओसही तहा । हरिकाया य बोधवा, पत्तेआ इति आहि-आ ॥ ९५ ॥
व्याख्या – 'बलयलयत्ति' लतावलयानि नारिकेलीकदल्यादीनि तेषां हि शाखान्तराभावेन लतात्वं वलयाकारत्वेन च वलयत्वं ज्ञेयम् ॥ ७ ॥ पर्वाणि सन्धयस्तेभ्यो जातः पर्वजा इक्षुप्रमुखाः ॥ ८ ॥ कुहणा भूमिस्फोटा छश्राकाराः ॥ ९ ॥ जलरुहाः पद्माद्याः ॥ १० ॥ ओषध्यः फलपाकान्ताः शाल्यादयः ॥ ११ ॥ तथेति समुच्चये, हरितान्येव काया येषां ते हरितकायाः तन्दुलीयकाद्याः ॥ १२ ॥ चशब्दः खगतानेकभेदसूचकः ॥ ९५ ॥ साधारणानाहमूलम् — साहारणसरीरा उ णेगहा ते पकित्तिआ । आलूए मूलए चेव, सिंगबेरे तहेव य ॥ ९६ ॥ हिरिली सिरिली सिस्सिरिली, जावईके अकंदली । पलंडू लसण कंदे कंदली अ कुहुबए ॥ ९७ ॥ लोहणी हुअ थी अ, कुहगा य तहेव य । कण्हे अ वज्जकंदे अ, कंदे सूरणए तहा ॥ ९८ ॥ १ "येषां ते " इतिपाठो 'घ' पुस्तके नास्ति ॥
षटूत्रिंशमध्यययम्.
(३६)
लगा ९५-९८
UTR-3