________________
उत्तराध्ययन
॥ ३८० ॥
१५
१८
२१
४२
व्याख्या - लोकैकदेशे ते सर्वे इत्यनेन सर्वत्र मुक्तास्तिष्ठन्तीति मतमपास्तं, ज्ञानदर्शनसंज्ञिता इत्यनेन ज्ञानोच्छेदे मुक्तिरिति मतं निरस्तं, संसारपारं निस्तीर्णाः पुनरागमनाभावलक्षणेनाधिक्येन अतिक्रान्ताः, अनेन तु " ज्ञानिनो धर्मतीर्थस्य, कर्त्तारः मरमं पदम् । गत्वाऽऽगच्छन्ति मूयोऽपि भवं तीर्थनिकारतः ॥ १ ॥ " इति मतमपाकृतं, सिद्धिं वरगतिं गता अनेन क्षीणकर्मणोऽपि स्वभावेनैवोत्पत्तिसमये लोकाग्रगमनं यावत्सक्रियत्वमप्यस्तीति ख्याप्यते इत्येकादशसूत्रार्थः ॥ ६७ ॥ इत्थं सिद्धानुक्त्वा संसारस्थानाह
मूलम् — संसारत्था उ जे जीवा, दुबिहा ते विआहिआ। तसा य थावरा चेव, थावरा तिविहा तहिं ॥६८॥ व्याख्या - स्पष्टं ॥ ६८ ॥ त्रैविध्यमेवाह -
A
मूलम् — पुढवी आउ जीवा य, तहेव य वणस्सई । इच्चेते थावरा तिविहा, तेसिं भेए सुह मे ॥६९॥ व्याख्या - स्पष्टम्, नवरं इह तेजोवाय्वोर्गतित्रसत्वेन स्थावरमध्येऽनभिधानम् ॥ ६९ ॥ पृथिवीकायिकानाह— मूलम् — दुविहा पुढवीजीवा उ, सुहुमा बायरा तहा । पज्जत्तमपज्जत्ता, एवमेए दुहा पुणो ॥ ७० ॥ व्याख्या - द्विविधाः पृथिवी जीवास्तु सूक्ष्माः सूक्ष्मनामकर्मोदयात्, बादरा बादरनामकर्मोदयात्, 'पज्जत्तमपज्ज - आहारशरीरेन्द्रियोच्छ्रासवागूमनोनिष्पत्तिहेतुदलिकं पर्याप्तिस्तद्वन्तः पर्याप्ताः, तद्विपरीता अपर्याप्ताः, एवमे सूक्ष्मा नादराश्च प्रत्येकं द्विधा पुनः ॥ ७० ॥ पुनरेषामेवोत्तरभेदानाह
तत्ति'
षटूत्रिंशमध्ययनम्. (३६) गा ६८-७०
UTR-3