________________
उत्तराध्ययन ॥३७९॥
पत्रिंशमध्ययनम्. गा ६५-६७
न्तवर्तिनि तुः पृत्तौं ततश्चरमभवोत्सेधात्रिभागहीना सिद्धानां यत्तदोर्नित्याभिसम्बन्धात् तेषामवगाहना भवेत् त्रिभागस्य शरीरान्तर्विवरपूरणेन कृतार्थत्वात् ॥ ६४ ॥ एतानेव कालतो निरूपयितुमाहमूलम्-एगणं साईआ, अपजवसिआवि अ । पुहत्तेण अणाईआ, अपज्जवसिआवि अ॥६५॥ ___ व्याख्या-एकत्वेन सादिकाः अपर्यवसिता अपि च, यत्र काले ते सिध्यन्ति तत्र तेषामादिः न च कदाचिन्मुक्तेभ्रंश्यन्तीति न पर्यवसानं । पृथक्त्वेन बहुत्वेन सामस्त्यापेक्षयेत्यर्थः अनादिका अपर्यवसिता अपि च, न हि ते कदाचिन्नाभूवन्न भवन्ति न भविष्यन्ति चेति भावः ॥६५॥ एषामेव खरूपमाहमूलम्-अरूविणो जीवघणा, नाणदंसणसन्निआ। अउलं सुहसंपत्ता, उवमा जस्स नत्थि उ॥ ६६ ॥ ___ व्याख्या-अरूपिणो रूपरसादिरहिताः, जीवाश्च ते सततोपयुक्ततया घनाश्च शुषिरपूरणनिचितप्रदेशतया
जीवधनाः, ज्ञानदर्शने एव संज्ञा जाता येषां ते ज्ञानदर्शनसंज्ञिताः, ज्ञानदर्शनोपयोगानन्यखरूपा इत्यर्थः । अतुलं | असमं सुखं संप्राप्ताः, उपमा यस्य सुखस्य नास्ति तुः पूत्तों ॥६६॥ उक्तग्रन्थे ज्ञातमपि विप्रतिपत्तिनिरासाय
क्षेत्रं खरूपं च तेषामाह* मूलम्-लोएगदेसे ते सवे, नाणदंसणसन्निआ।संसारपारनिस्थिण्णा, सिद्धिं वरगइं गया ॥ ६७ ॥
UTR-3