________________
उत्तराध्ययन ॥३७८॥
पत्रिंशमध्ययनम्.
गा ६२-६४
व्याख्या-पूर्वार्द्ध स्पष्टं, 'सीआएत्ति' शीतायाः शीताभिधायाः पृथ्व्या उपरीति शेषः, योजने उत्सेधांमूलनिप्पन्ने इति गम्यं, तत इति तस्या लोकान्तस्तुः पृत्तौ व्याख्यातः ॥ ६१॥ ननु यदि योजने लोकान्तस्तहि किं तत्र योजने सर्वत्र सिद्धाः सन्ति उत नेत्याहमूलम्-जोअणस्स उ जो तस्स, कोसो उवरिमो भवे। तस्स कोसस्स छब्भाए, सिद्धाणोगाहणाभवे ॥
व्याख्या-योजनस्य तु यस्तस्य क्रोश 'उवरिमोत्ति' उपरिवर्ती भवेत् तस्य क्रोशस्य षड्भागे द्वात्रिंशदङ्गुलत्रयस्त्रिंशद्धनुरधिकधनुःशतत्रयरूपे सिद्धानामवगाहना भवेत् ॥ ६२ ॥ अवगाहना च चलनसम्भवेऽपि स्यादित्याहमूलम् तत्थ सिद्धा महाभागा, लोगग्गंमि पइडिआ।भवप्पवंचउम्मुक्का, सिद्धिं वरगइं गया ॥६३॥ __ व्याख्या-तत्र योजनषड्भागे सिद्धा महाभागा अतिशयाचिन्त्यशक्तयो लोकाग्रे प्रतिष्ठिताः, एतच्च कुतः? इत्याहभवा नारकादिभवास्तेषां प्रपञ्चो विस्तारस्तेनोन्मुक्ताः सिद्धिं वरगतिं गताः । अयं भावो भवप्रपञ्च एव चलने हेतुः | स च सिद्धानां नास्तीति कुतः तेषां चलनमिति ॥ ६३ ॥ सिद्धानामवगाहनामाहमूलम्-उस्सेहो जस्स जोहोइ, भवम्मिचरिमम्मि।तिभागहीणा तत्तो अ, सिद्धाणोगाहणाभवे६४ व्याख्या-उत्सेध उच्छ्रयः प्रक्रमादेहस्य 'जस्सत्ति' येषां सिद्धानां य इति यत्परिमाणो भवति भवे चरमे पर्य
UTR-3