________________
उत्तराध्ययन ॥३७७॥
पत्रिंशमध्ययनम्. गा ५९-६१
व्याख्या-पञ्चचत्वारिंशत् शतसहस्राणि लक्षाणि योजनानां तुः पूतौ आयता दीर्घा, 'तावइ चेवत्ति' तावतश्चैव शतसहस्रान् विस्तीर्णा, त्रिगुणः 'तस्सेवत्ति' तस्मादायामात्परिरयः परिधिः । इह च त्रिगुण इत्युक्तेऽपि विशेपाधिक्यं द्रष्टव्यम् । परिरयमानं चैवं-“एगा जोअणकोडि, बायालीसं भवे सयसहस्सा । तीसं चेव सहस्सा, दो चेव सया अउणपण्णत्ति ॥१॥ ५८ ॥ मूलम्-अट्ठजोअणबाहल्ला, सा मज्झमि विआहिआ।परिहायंती चरिमंते, मच्छिपत्ताओ तणुअतरी५९ ___व्याख्या-अष्टयोजनबाहल्या सा मध्ये मध्यप्रदेशे व्याख्याता, ततः परि समन्तात् हीयमाना 'चरिमंतेत्ति' चरमान्तेषु सकलदिग्वर्तिपर्यन्तप्रदेशेषु मक्षिकापत्रादपि तनुकतरा । हानिश्चात्र प्रतियोजनमङ्गुलपृथक्त्वस्य ज्ञेया ॥ ५९॥ मूलम्-अजुणसुवण्णगमई, सा पुढवी निम्मला सहावेणं। उत्ताणगछत्तसंठिआ य,भणिआ जिणवरेहिं
व्याख्या-अर्जुनसुवर्णकमयी शुक्लकनकमयी सा पृथ्वी निर्मला खभावेन नोपाधितः, उत्तानकच्छत्रसंस्थिता । पूर्व छत्रसंस्थिति सामान्येनोक्तं, इह तु उत्तानत्वं तद्विशेष इति न पौनरुक्त्यम् ॥ ६॥ मूलम्-संखंककुंदसंकासा,पंडुरा निम्मला सुभा।सीआए जोअणे तत्तो,लोअंतो उ विआहिओ॥३१॥
UTR-3