SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥३७६॥ षत्रिंशमध्ययनम्. गा५६-५८ * मूलम्-अलोए पडिहया सिद्धा, लोअग्गे अ पइटिआ। इहं बोदिं चइत्ता णं, तत्थ गतूण सिज्झइ।५६॥ __व्याख्या-अलोके केवलाकाशरूपे प्रतिहताः सिद्धाः, तत्र धर्मास्तिकायाभावेन तेषां गतेरभावात् , लोकाग्रेच प्रतिष्ठिताः सदावस्थिताः, ननु तिर्यगधो वा तेषां गतिर्भाविनी तत्कथं लोकाग्रे तदवस्थानं ? उच्यते-अधस्तिर्यग्गयोः कर्माधीनत्वात् तेषां च क्षीणकर्मत्वान्न तत्सम्भवो यदुक्तं-"अधस्तिर्यगथोर्ट्स च, जीवानां कर्मजा गतिः। ऊर्द्धमेव तु ताद्धा-द्भवति क्षीणकर्मणाम् ॥ १॥” इह तिर्यग्लोकादौ बोन्दिं वपुस्त्यक्त्वा तत्र लोकाग्रे गत्वा सिध्यन्ति । इह च यस्मिन्समये देहत्यागस्तस्मिन्नेव मोक्षो लोकाग्रे गतिः सिद्धत्वं च "मुखं व्यादाय खपिति" इत्यादिवंदिहापि क्त्वाप्रत्ययस्य समानकाल एव प्रयोगादिति सूत्रत्रयार्थः ॥ ५६ ॥ लोकाग्रे गत्वा सिध्यन्ति इत्युक्तं, लोकाग्रं चेषत्प्रागभाराया उपरीति तत्वरूपं सिद्धखरूपं चाहमूलम्-बारसहिं जोअणेहिं, सबस्सुवरिं भवे । इसीपभारनामा उ, पुढवी छत्तसंठिआ ॥ ५७ ॥ ___ व्याख्या-द्वादशभिर्योजनैः सर्वार्थस्यानुत्तरविमानस्योपरि भवेत् , ईषत्प्राग्भारेति नाम यस्याः सा ईषत्प्राग्भारनामा, तुः पूत्तौं, पृथिवी छत्रसंस्थिता छत्राकारा ॥ ५७ ॥ मूलम्-पणयालसयसहस्सा,जोअणाणं तु आयया। तावइअंचेव विच्छिण्णा, तिगुणो तस्सेव परिरओ UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy