________________
उत्तराध्ययन
॥ ३७४ ॥
१२
१५
१८
२१
२४
व्याख्या - संसारस्थाश्च सिद्धाश्च द्विविधा जीवा व्याख्याताः, तत्राल्पवक्तव्यत्वादादौ सिद्धानाह - सिद्धाः अनेकविधाः प्रोक्ताः 'तं मेत्ति' तान्मे कीर्त्तयतः शृणु हे शिष्येति सूत्रार्थः ॥ ४८ ॥ सिद्धानामनेकविधत्वमेवोपाधिभेदेनाह
मूलम् - इत्थी पुरिस सिद्धा य९ तहेव य नपुंसगा । सलिंगे अन्नलिंगे अ, गिहिलिंगे तहेव य ॥ ४९॥ व्याख्या - सिद्धशब्दः प्रत्येकं योज्यः, स्त्रियश्च ते पूर्वभावापेक्षया सिद्धाश्व स्त्रीसिद्धाः, एवं पुरुषसिद्धाः, तथैव च नपुंसकसिद्धाः, खलिङ्गे साधुवेषे, अन्यलिङ्गे च शाक्यादिवेषे, गृहिलिङ्गे गृहस्थवेषे सिद्धास्तथैवेत्युक्तसमुच्चये, चकारोऽनुक्तसिद्धभेदसंसूचक इति सूत्रार्थः ॥ ४९ ॥ अथ सिद्धानेवावगाहनातः क्षेत्रतश्चाह
मूलम् — उक्कोसोगाहणाए अ, जहन्नमज्झिमाइ अ । उड्ढे अहे अ तिरिअं च, समुद्दमि जलंमि अ । ५० ।
व्याख्या—उत्कृष्टावगाहनायां पञ्चशतधनुर्मानायां सिद्धाः 'जहन्नमज्झिमाइ अत्ति' जघन्यावगाहनायां द्विहस्तमानायां, मध्यमावगाहनायां चोक्तरूपोत्कृष्टजघन्यावगाहनान्तरालवर्त्तिन्यां सिद्धाः ऊर्द्धमूर्द्धलोके मेरुचूलिकादौ, अधोऽधस्तादधोलोकेऽधोलौकिकग्रामरूपे, तिर्यक् च तिर्यग्लोके अर्द्धतृतीयद्वीपसमुद्रद्वयरूपे । तत्रापि केचित्समुद्रे सिद्धाः, जले च नद्यादिसम्बंधिनीति सूत्रार्थः ॥ ५० ॥ इत्थं स्त्रीसिद्धादीनभिदधता स्त्रीत्वादिषु सिद्धसम्भव उक्तः, सम्प्रति तत्रापि क कियन्तः सिध्यन्तीत्याह
षटूत्रिंशमध्यययम्. (३६)
गा ४९-५०
UTR-3