________________
उत्तराध्ययन ।। ३५ ।।
३
o
१२
॥ ४० ॥ नंष्ट्वा भद्रा त्वगालोके - र्विषदेयमितीरिता ॥ छन्नं न तिष्ठेत्पापानां पापं लशुनगन्धवत् ! ॥ ४१ ॥ देवातत्रागतश्चित्र – गतिव्यम्ना व्रजंस्तदा ॥ विलपन्नृपपौरं त - ददर्श पुरमातुरम् ॥ ४२ ॥ ज्ञात्वा च विषवार्त्ता ता-मुतीर्य नभसो द्रुतम् ॥ मंत्राभिमंत्रिताम्भोभिः, सुमित्रमभिषिक्तवान् ॥ ४३ ॥ ततस्तं प्राप्तचैतन्यं किमेतदितिवादिनम् ॥ नृपोऽवादीद्विमाता ते, भद्राऽदादुल्बणं विषम् ! ॥ ४४ ॥ अयं चाशमयद्वत्स !, बान्धवो हेतुमन्तरा ॥ तन्निशम्य सुमित्रोऽपि तमित्यूचे कृताञ्जलिः ॥ ४५ ॥ खनामवंशाख्यानेन, भ्रातः ! कर्णौ पुनीहि मे ॥ श्रुतं नामादि पुण्याय, त्वादृशां ह्युपकारिणाम् ॥ ४६ ॥ मित्रं चित्रगतेर्नामा - दिकं तस्मै ततोऽब्रवीत् ॥ तदाकर्ण्य प्रमुदितः, सुमित्रस्तमदोऽवदत् ॥ ४७ ॥ विषेण विषदात्रा च बहूपकृतमद्य मे ॥ अनभ्रामृतवृष्ट्याभं, नो चेत्त्वदर्शनं कुतः ॥ ४८ ॥ जीवितदातुः पातुश्च, बालमृत्यूत्थदुर्गतेः ॥ किं ते प्रत्युपकुर्वेहं, घनस्येव जगज्जनः ! ॥ ४९ ॥ सुमित्रं मित्रतां प्राप्तं, वदन्तमिति संमदात् ॥ पप्रच्छ स्वच्छधीर्गन्तुं खपुरं सूरनंन्दनः ॥ ५० ॥ ऊचे सुमित्रो विहरन्, सुयशाः केवली सखे ! ॥ इहाऽऽगन्ताऽद्य वा श्वो वा तं नत्वा गन्तुमर्हसि ! ॥ ५१ ॥ तेनेत्युक्तः स तत्रास्था-तौ चोद्यानेऽन्यदा गतौ ॥ तं मुनीन्द्रं वृतं देवैः खर्णाच्जस्थमपश्यताम् ॥ ५२ ॥ तयोर्मुदितयोः सम्यक्, तमानम्य निविष्टयोः ॥ श्रुत्वा सुग्रीवभूपोऽपि तत्रोपेत्य ननाम तम् ॥ ५३ ॥ तेषामुपादिशद्धर्म, केवली जगतां हितः ॥ तं चाकर्ण्य मुदा
द्वाविंशम
ध्ययनम् श्रीनेमिना
थचरित्रम् ४१-५३
UTR-3