SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ३४॥ द्वाविंशमध्ययनम् (२२) श्रीनेमिनाथचरित्रम् २८-४० अथ तत्रैव वैताढ्ये-ऽपाच्यश्रेणिस्थितेऽभवत् ॥ भूमाननङ्गसिंहाख्यो, नगरे शिवमन्दिरे ॥ २८ ॥ शशिप्रभाप्रभगुणा, तस्य राज्ञी शशिप्रमा ॥ दिवो धनवतीजीव-श्युत्वा तत्कुक्षिमागमत् ॥ २९॥ क्रमाचाजीजनत्पुत्री, पुण्यरूपां शशिप्रभा ॥ पिता रत्नवतीत्याख्यां, तस्याश्चके महोत्सवैः ॥३०॥ क्रमेण वर्द्धमाना सा, स्वीकृत्य सकलाः कलाः ॥ प्रपेदे यौवनं वर्य-चातुर्यामृतसागरेम् ॥ ३१ ॥ कः स्यादस्याः पतिरिति, पृष्टः पित्राऽन्यदा मुदा ॥ ज्ञानी कोऽपि जगौ यस्ते, हर्ता दिव्यमसिं करात् ॥ ३२॥ यस्यो नित्यचैत्ये च, पुष्पवृष्टिर्भविष्यति॥ कनीरत्नमिदं मर्त्यरत्नं स परिणेष्यति ॥ ३३॥ [ युग्मम् ] आच्छेत्ता खड्गरत्वं यो, ममापि स महाबलः ॥ जामाता भवितेत्यन्त| मुमुदे भूपतिस्ततः ॥ ३४ ॥ ___ अथात्र भरते चक्र-पुरे सुग्रीवभूभुजः ॥ राज्यौ यशखिनीभद्रे, अभूतामति वल्लभे ॥ ३५॥ तत्राद्यायाः सुतो जज्ञे, जैनधर्मरतो गुणी ॥ सुमित्रो मित्रवत्सजः, सजनाब्जप्रमोदने ॥ ३६ ॥ पद्माह्वश्छमनां समा-ऽपरस्यास्तु सुतोऽभवत् ॥ वैमात्रेयममीभेजु-रितीव गुणवर्जकः ॥ ३७॥ सत्यस्मिन्मम पुत्रस्य, राज्यं खप्नेऽपि दुर्लभम् ॥ इति भद्रा सुमित्रस्या-ऽन्यदाऽदाद्विषमं विषम् ॥ ३८ ॥ विषेण मूर्छिते तेन, सुमित्रे भृशमाकुलः ॥ सुग्रीवस्तस्य मंत्राद्यै-रुपचारानचीकरत् ॥ ३९ ॥ तैरभूत्तस्य न खास्थ्यं, ततः पौरान्वितो नृपः ॥ स्मारं स्मारं सुतगुणां-श्चक्रन्द भृशमुन्मनाः १ सदृक् । २ अमी गुणाः ॥ UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy