________________
उत्तराध्ययन ॥३६७॥
पत्रिंशमध्ययनम्, गा१२
व्याख्या-एकत्वेन पृथग्भूतद्वयादिपरमाणुसकाततो द्विप्रदेशिकादिलक्षणसमानपरिणतिखरूपेण, पृथक्त्वेन परमाण्वन्तरैः सहासंघातरूपेण बृहत्स्कन्धेभ्यो विचटनात्मकेन वा स्कन्धाश्च परमाणवश्च लक्ष्यन्त इति शेषः । एतानेव क्षेत्रत आह-'लोएगदेसे' इत्यादि-लोकस्यैकदेशे लोके च भक्तव्या भजनया विज्ञेयाः ते इति स्कन्धाः परमाणवश्च, तुः पूरणे, क्षेत्रतः । अत्र चाविशेषोक्तावपि परमाणूनामेकप्रदेश एवावस्थानात् स्कन्धविषयैव भजना द्रष्टव्या। ते हि विचित्रपरिणामत्वेन बहुतरप्रदेशोपचिता अपि केचिदेकप्रदेशे अवतिष्ठन्ते, अन्ये तु संख्येयेष्वेव प्रदेशेषु यावकोऽपि सकललोकेपि तथाविधाचित्तमहास्कन्धवत्ततो भजनीया इत्युच्यन्ते । 'इत्तोत्ति' इत इति क्षेत्रप्ररूपणातोऽनन्तरं कालविभागं तु कालभेदं पुनस्तेषां स्कन्धादीनां वक्ष्ये चतुर्विधं साधनादिसपर्यवसितापर्यवसितभेदेनेति सूत्रार्थः । इदं च सूत्रं षट्पादं, प्रत्यन्तरेषु चान्त्यपादद्वयं न दृश्यतेऽपि ॥ ११॥ प्रतिज्ञातमाहमूलम्-संतई पप्प तेऽणाई, अपज्जवसिआवि अ। ठिइं पडुच्च साईआ, सपजवसिआवि अ ॥१२॥ _ व्याख्या-सन्ततिमपरापरोत्पत्तिरूपां प्राप्य आश्रित्य ते इति स्कन्धाः परमाणवश्च अनादयः अपर्यवसिता अपि च, न हि प्रवाहतस्तद्वियुक्तं जगत् कदाप्यासीत् अस्ति भविष्यति वा । स्थिति प्रतिनियतक्षेत्रावस्थानरूपां प्रतीत्य सादिकाः सपर्यवसिता अपि च, ब्रजन्ति हि कालान्तरे नवनवं क्षेत्रं परमाणवः स्कन्धाश्चेति ॥१२॥ सादिसपर्यवसितत्वेप्येषां कियत्कालं स्थितिरित्याह
UTR-3