________________
उत्तराध्ययन
षत्रिंशमध्ययनम्,
॥३६८॥
गा१३-१६
मूलम्-असंखकालमुक्कोसं, एगं समयं जहन्नयं । अजीवाण य रूविणं, ठिई एसा विआहिआ ॥१३
व्याख्या-असंख्यकालमुत्कृष्टा, एकं समयं जघन्यका, अजीवानां रूपिणां स्थितिरेकक्षेत्रावस्थानरूपा एषा व्याख्याता । ते हि जघन्यत एकसमयादुत्कृष्टतोऽसंख्यकालादप्यूटै ततः क्षेत्रात्क्षेत्रान्तरमवश्यं यान्तीति ॥ १३ ॥ इत्थं कालद्वारमाश्रित्य स्थितिरुक्ता, सम्प्रत्येतदन्तर्गतमेवान्तरमाह - मूलम्-अणंतकालमुक्कोसं, एगं समयं जहन्नयं । अजीवाण य रूवीणं, अंतरेअं विआहिअं॥१४॥ ___ व्याख्या-स्पष्टं, नवरं-'अंतरेअंति' अन्तरं विवक्षितक्षेत्रात् प्रच्युतानां पुनस्तत्प्राप्तिव्यवधानं एतत्पूर्वोक्तमिति सूत्रत्रयार्थः ॥ १४ ॥ एतान्येव भावतोऽभिधातुमाहमूलम्-वण्णओ गंधओ चेव, रसओ फासओ तहा।संठाणओ अविण्णेओ, परिणामो तेसि पंचहा
व्याख्या-वर्णतो गन्धतश्चैव रसतः स्पर्शतस्तथा संस्थानतश्च विज्ञेयः परिणामः स्वरूपाव स्थितानामेव वर्णाधन्यथाभावस्तेषामणूनां स्कन्धानां च पञ्चधा ॥ १५ ॥ प्रत्येकमेषामेवोत्तरभेदानाह
मूलम्-वण्णओ परिणया जे उ, पंचहा ते पकित्तिआ।
किण्हा नीला य लोहिआ, हालिद्दा सुक्किला तहा ॥ १६ ॥
UTR-3