________________
उत्तराध्ययन ॥ ३६५॥
३
१२
मूलम् - आगासे तस्स देसे अ, तप्पएसे अ आहिए । अद्धासमये चेव, अरूवी दसहा भवे ॥ ६॥ व्याख्या - आङिति मर्यादया स्वरूपात्यागरूपया काशन्ते भासन्तेऽस्मिन् पदार्था इत्याकाशं तदेवास्तिकायः आकाशास्तिकायः ॥ १ ॥ तस्य देशश्च ॥ २ ॥ तत्प्रदेशश्चाख्यातः ॥ ३ ॥ एवं ॥ ९ ॥ अद्धा कालस्तद्रूपः समयोऽद्धासमयोऽनिर्विभागत्वाच्चास्य न देशप्रदेशसम्भवः, आवलिकाद्यास्तु कालभेदा व्यवहारत एवोच्यन्त इति नेह विवक्षिताः, एवमरूपिणो दशधा भवेयुरिति सूत्रत्रयार्थः ॥ ६ ॥ सम्प्रत्येतानेव क्षेत्रत आह
मूलम् - धमाधम्मे अ दोवेए, लोगमेता विआहिआ । लोआलए अ आगासे, समए समयखेत्तिए ॥ ७ ॥
व्याख्या - धर्म्माधर्मौ च धर्मास्तिकायाधर्मास्तिकायौ लोकमात्रौ व्याख्यातौ, लोकेऽलोके चाकाशं सर्वगतत्वातस्य, समयोऽद्धासमयः समयक्षेत्रमर्द्धतृतीयद्वीपवार्द्धिद्वयरूपं विषयभूतमस्यास्तीति समय क्षेत्रिकस्तत्परतस्वस्याभावादिति सूत्रार्थः ॥ ७ ॥ अथामूनेव कालत आह
मूलम् — धम्माधम्मागासा, तिण्णिऽवि एए अणाइआ । अपजत्रसिआ चेव, सबद्धं तु विआहिआ ८ व्याख्या - धर्माधर्म्माकाशानि त्रीण्यप्येतानि अनादिकानि अपर्यवसितानि चैव अनन्तानीत्यर्थः, 'सङ्घद्धं तुत्ति' सर्वाद्वामेव सर्वदा खखरूपात्यागता नित्यानीति यावत् व्याख्यातानि ॥ ८ ॥
षटूत्रिंशमध्ययनम् गा ६-८
UTR-3