________________
उत्तराध्ययन ॥३६४॥
पत्रिंशमध्ययनम्,
गा ३-५
मूलम्-दवओ खेत्तओ चेव, कालओ भावओ तहा। परूवणा तेसि भवे, जीवाणं अजीवाण य ॥३॥
व्याख्या-द्रव्यत इदमियद्भेदं द्रव्यमिति, क्षेत्रतश्चैव इदमियति क्षेत्रे स्यादिति, कालत इदमियत्कालस्थितिकमिति, भावत इमेऽस्य पर्यायास्तथेति समुच्चये इति प्ररूपणा तेषां विभजनीयत्वेन प्रक्रान्तानां भवेजीवानामजीवानां चेति सूत्रद्वयार्थः ॥ ३॥ तत्राल्पवक्तव्यत्वाव्यतोऽजीवप्ररूपणामाहमूलम्-रूविणो चेवरूवी अ, अजीवा दुविहा भवे । अरूबी दसहा वुत्ता, रूविणोऽवि चउबिहा ॥४॥ ___ व्याख्या-रूपिणश्चैव समुच्चये अरूपिणश्च अजीवा द्विविधा भवेयुः, तत्रारूपिणो दशधा उक्ताः, 'रूविणोवित्ति' अपिः पुनरर्थस्ततो रूपिणः पुनश्चतुर्विधाः । अत्राप्यल्पवक्तव्यत्वादेवारूपिणां प्राक् प्ररूपणेति ध्येयम् ॥४॥ तत्रारूपिणो दशविधानाहमूलम्-धम्मत्थिकाए तसे, तप्पएसे अ आहिए । अधम्मे तस्स देसे अ, तप्पएसे अ आहिए ॥५॥
व्याख्या-धारयत्यनुगृहाति गतिपरिणतान् जीवपुद्गलांस्तत्वमावतयेति धर्मः, अस्तयः प्रदेशास्तेषां कायः समूहोऽस्तिकायः, धर्मश्चासावस्तिकायश्च धर्मास्तिकायः ॥१॥ तस्य धर्मास्तिकायस्य देशस्त्रिभागश्चतुर्भागादिः तद्देशः ॥२॥ तस्य प्रदेशो निर्विभागो भागस्तत्प्रदेशश्च आख्यातः ॥३॥न धारयति जीवाणून् गतिपरिणतो स्थित्यवष्टम्भकत्वादित्यधर्मः स एवास्तिकायोऽधर्मास्तिकायः ॥१॥ तस्य देशः २ तत्प्रदेश ३ श्चाख्यातः॥५॥
UTR-3