SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥३६३॥ ॥ अथ षट्त्रिंशमध्ययनम् ॥ त्रिंशमध्ययनम्, गा १-२ ॥ अहम् ॥ उक्तं पञ्चत्रिंशमध्ययनमथ जीवाजीवविभक्तिसंज्ञं त्रिंशमारभ्यते, अस्स चायमभिसम्बन्धोऽनन्तराध्ययने भिक्षुगुणाः उक्तास्ते च जीवाजीवखरूपपरिज्ञानादेवासेवितुं शक्या इति तज्ज्ञापनार्थमिदमारभ्यते इति सम्बन्धस्यास्पदमादिसूत्रम्मूलम्-जीवाजीवविभत्तिं, सुणेह मे एगमणा इओ। जाणिऊण भिक्खू, सम्मं जयइ संजमे ॥१॥ व्याख्या-जीवाजीवानां विभक्तिस्तद्भेदादिदर्शनेन विभागेनावस्थापनं जीवाजीवविभक्तिस्तां शृणुत मे कथयतः इति शेषः, एकमनसः सन्तः, अतोऽनन्तराध्ययनादनन्तरं, यां जीवाजीवविभक्तिं प्ररूपणाद्वारेणैव ज्ञात्वा भिक्षुः सम्यग् यतते प्रयत्नं कुरुते संयमे इति सूत्रार्थः ॥१॥ जीवाजीवविभक्तिप्रसङ्गादेव लोकालोकविभक्तिमाहमूलम्-जीवा चेव अजीवा य, एस लोए विआहिए। अजीवदेसे आगासे, अलोए से विआहिए ॥२॥ व्याख्या-जीवाश्चैव अजीवाश्च एष सर्वप्रसिद्धो लोको व्याख्यातोऽहंदाद्यैः, अजीवदेश आकाशमलोकः स व्याख्यातो धर्मास्तिकायादिरहितस्थाकाशस्यैवालोकत्वात् ॥ २ ॥ इह च जीवाजीवानां विभक्तिः प्ररूपणाद्वारेणैव स्यादिति तामाह UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy