________________
उत्तराध्ययन
॥ ३६१ ॥
१२
पचयार्थमित्यर्थः न भुञ्जीत, किमर्थं तत्याह-यापना निर्वाहः स चार्थात् संयमस्य तदर्थं महामुनिर्भुञ्जीतेतियोगः ॥ १७ ॥ तथा
मूलम् - अच्चणं रयणं चेव, वंदणं पूअणं तहा । इड्डीसक्का र सम्माणं, मणसावि न पत्थए ॥ १८ ॥
व्याख्या - अर्चनां पुष्पादिभिः पूजां, रचनां निषद्यादिविषयां स्वस्तिकादिरूपां वा, चः समुच्चये एवोऽवधारणे नेत्यनेन योज्यः, वन्दनं प्रतीतं, पूजनं वस्त्रादिभिः प्रतिलाभनं तथेति समुच्चये, ऋद्धिश्च श्रावकोपकरणादिसम्पत्सत्कारश्चार्घदानादिः, सम्मानं चाभ्युत्थानादि ऋद्धिसत्कार सम्मानं मनसाप्यास्तां वाचा नैव प्रार्थयेत् ॥ १८ ॥ किं पुनः कुर्यादित्याह—
मूलम् - सुकं झाणं झिआएजा, अनिआणे अकिंचणे । वोसट्टकाए विहरेजा, जाव कालस्स पज्जओ ॥
व्याख्या- 'मुक्कं झाणंति' सोपस्कारत्वात् सूत्रस्य शुक्लं ध्यानं यथा भवति तथा ध्यायेत् अनिदानोऽकिञ्चनः व्युत्सृष्टकायो निष्प्रतिकर्मशरीरो विहरेदप्रतिबद्धविहारितयेति भावः । कियन्तं कालमित्याह - यावत् कालस्य मृत्योः पर्यायः प्रस्तावो यावज्जीवमित्यर्थः ॥ १९ ॥ प्रान्तकाले चायं यत्कृत्वा यत्फलं प्राप्नोति तदाह
मूलम् — निज्जूहिऊण आहारं, कालधम्मे उबट्ठिए। जहिऊण माणुसं बोंदिं, पभु दुक्खे विमुच्च ॥२०॥
पञ्चत्रिंशमध्ययनम्.
गा१८-२०
UTR-3