________________
उत्तराध्ययन
पश्चत्रिंशमध्ययनम्.
गा१६-१७
व्याख्या-मिक्षितव्यं याचितव्यं तथाविधवस्त्विति गम्यते, न क्रेतव्यं उपलक्षणत्वाच नापि विक्रेतव्यं भिक्षुणा मिक्षावृत्तिना, अत्रैवादरख्यापनार्थमाह-क्रयश्च विक्रयश्च क्रयविक्रयं महादोषं, लिङ्गव्यत्ययः सूत्रत्वात् , भिक्षावृत्तिः | सुखावहा ॥ १५ ॥ भिक्षितव्यमित्युक्तं तचैककुलेऽपि स्यादत आहमूलम्-समुआणं उंछमेसिजा, जहासुत्तमणिंदिअं। लाभालाभंमि संतुहे, पिंडवायं चरे मुणी ॥१६॥
व्याख्या-समुदानं भक्ष्यं तच उच्छमिव उच्छं अन्यान्यगृहेभ्यः स्तोकस्तोकमीलनात् एषयेद्वेषयेत् यथासूत्रं आगमार्थानतिक्रमेण उद्गमोत्पादनैषणाद्यबाधात् इति भावस्तत एवानिन्दितं जात्यादिजुगुप्सितजनसम्बन्धि यन्त्र भवति, तथा लाभालाभे सन्तुष्टः पिण्डस्य पातः पतनं प्रक्रमात् पात्रेऽस्मिन्निति पिण्डपातं चरेदासेवेत मुनिर्वाक्यान्तरविषयत्वाच न पौनरुक्त्यम् ॥ १६ ॥ इत्थं पिण्डमवाप्य यथा भुजीत तथाहमूलम्-अलोले न रसे गिद्धे, जिब्भादंते अमुच्छिए । न रसट्टाए अँजिज्जा, जवणट्ठाए महामुणी।१७।। ___ व्याख्या-अलोलो न सरसान्ने प्राप्ते लाम्पट्यवान् , न रसे मधुरादौ गृद्धोऽप्राप्तेऽभिकांक्षावान् , कुतश्चैविधः १ यतः 'जिब्भादंतेत्ति' दान्तजिहोऽत एवामूञ्छितः सन्निधेरकरणेन भोजनकालेऽभिष्वङ्गाभावेन वा । एवंविधश्च न नैव 'रसट्टाएत्ति' रसो धातुविशेषः स चाशेषधातूपलक्षणं ततस्तदुपचयः स्यादिति रसार्थ धातू.
UTR-3