SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥३५५॥ ॥ अथ पञ्चत्रिंशमध्ययनम् ॥ पञ्चत्रिंशमध्ययनम्. गा१-२ अहम् ॥ उक्तं चतुस्त्रिंशमध्ययनमथानगारमार्गगत्याख्यं पञ्चत्रिंशमारभ्यते, अस्य चायं सम्बन्धः-इहानन्तराध्ययनेऽप्रशस्ता लेश्यास्त्यक्त्वा प्रशस्ता एवाश्रयणीया इत्युक्तं, तच्च गुणवता भिक्षुणा सम्यकर्तुं शक्यमिति इह तद्गुणा उच्यन्त इति सम्बन्धस्यास्येदमादिसूत्रम्मूलम्-सुणेह मेगग्गमणा, मग्गं बुद्धेहिं देसिअं । जमायरंतो भिक्खू , दुक्खाणंतकरो भवे ॥१॥ व्याख्या-शृणुत मे वदत इति शेषः, हे शिष्याः ! यूयं एकाग्रमनसोऽनन्यचित्ताः, किं तदित्याह-मार्ग मुक्ते| रिति प्रक्रमः, बुद्धैरहंदाद्यैर्देशितं, यमाचरन्नासेवमानो भिक्षुः दुःखानामन्तकरो भवेत्सकलकर्मनिर्मूलनादिति भावः ॥१॥ प्रतिज्ञातमेवाहमूलम्-गिहवासं परिच्चज, पवजं अस्सिए मुणी। इमे संगे विआणेजा, जेहिं सजंति माणवा ॥२॥ व्याख्या-गृह वासं परित्यज्य प्रव्रज्यामाश्रितो मुनिः इमान् प्रतिप्राणिप्रतीतत्वेन प्रत्यक्षान् सङ्गान् पुत्रकलत्रा UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy