________________
उत्तराध्ययन ॥३५६॥
पञ्चत्रिंशमध्ययनम्. (३५) गा ३-५
दीन् विजानीयात् , भवहेतवोऽमी इति विशेषेणावबुध्येत, ज्ञानस्य च विरतिफलत्वात् प्रत्याचक्षीतेति भावः । सङ्गशब्दव्युत्पत्तिमाह-यैः सज्यन्ते प्रतिबन्धं भजन्ति मानवा उपलक्षणत्वादन्येऽपि जन्तवः ॥२॥ मूलम्-तहेव हिंसं अलिअं, चोजं अब्बंभसेवणं । इच्छा कामं च लोभं च, संजओ परिवजए॥३॥
न्याख्या-तथेति समुच्चये, एवेति पूरणे, हिंसामलीक चौर्यमब्रह्मसेवन इच्छारूपः काम इच्छाकामस्तं च अप्राप्तवस्तुवाञ्छारूपं लोभं च लब्धवस्तुविषयगृद्धिरूपं अनेनोभयेनापि परिग्रह उक्तस्ततः परिग्रहं च संयतः परिवर्जयेत् ॥ ३॥ तथामूलम्-मणोहरं चित्तघरं, मल्लधूवेण वासि। सकवाडं पंडरुल्लोअं, मणसावि न पत्थए ॥४॥
व्याख्या-मनोहरं मनोज्ञं चित्रप्रधानं गृहं चित्रगृहं माल्यधूपेन वासितं सकपाटं पाण्डुरोलोचं मनसाप्यास्तां वचसा न प्रार्थयेत्, किं पुनः तत्र तिष्ठेदिति भावः॥४॥ किं पुनरेवमुपदिश्यते ? इत्याहमूलम्-इंदिआणि उ भिक्खुस्स, तारिसम्मि उबस्सए । दुक्कराई निवारेउं, कामरागविवडणे ॥५॥
व्याख्या-इन्द्रियाणि तुरिति यस्माद्भिक्षोस्तारशे उपाश्रये दुष्कराणि करोतेः सर्वधात्वर्थव्याप्तत्वात् दुःशकानि निवारयितुं खखविषयेभ्य इति गम्यते, कामरागविवर्द्धने विषयाभिष्वङ्गपोषके इत्युपाश्रयविशेषणम् ॥५॥ तर्हि क स्थेयमित्याह
UTR-3