________________
उत्तराध्ययन ॥३५२॥
चतुर्विंशमध्ययनम्.
(३४)
गा ५६-५८
व्याख्या-'तित्तीसमुहुत्तमभहिअत्ति' त्रयस्त्रिंशन्मुहूर्ताभ्यधिकानि सागरोपमाण्युत्कृष्टेति गम्यते, अस्या जघन्या लान्तकेऽपरा त्वनुत्तरेष्विति द्वाविंशतिसूत्रार्थः ॥ ५५ ॥ उक्तं स्थितिद्वारं गतिद्वारमाह
मूलम्-किण्हा नीला काऊ, तिण्णिवि एआ उ अहमलेसाओ।
एआहिं तिहिं वि जीवो, दुग्गइं उववजइ ॥ ५६ ॥ व्याख्या-अत्र 'तिण्णिवित्ति' तिस्रोऽपि अधमलेश्या अप्रशस्तलेश्याः, दुर्गतिं नरकतिर्यग्गतिरूपां उपपद्यते प्राप्नोति ॥५६॥ मूलम्-तेऊ पम्हा सुक्का, तिण्णिऽवि एआ उधम्मलेसाओ। एआहिं तिहिंऽवि जीवो, सुग्गइं उववज्जइ ___ व्याख्या-'धम्मलेसाओत्ति' धर्मलेश्या विशुद्धत्वेनासां धर्महेतुत्वात् , सुगतिं नरगत्यादिकामिति सूत्रद्वयार्थः ॥ ५७ ॥ संप्रत्यायुारावसरस्तत्र चावश्यं जीवो यल्लेश्येत्पद्यते तल्लेश्य एव म्रियते, तत्र च जन्मान्तरभाविलेश्यायाः प्रथमसमये परभवायुप उदय आहोखिचरमसमयेऽन्यथा वा ? इति संशयापोहार्थमाह--
मूलम्-लेसाहिं सवाहिं, पढमे समयंमि परिणयाहिं तु ।
न हु कस्सवि उववाओ, परे भवे होइ जीवस्स ॥ ५८ ॥
UTR-3