________________
उत्तराध्ययन ॥३४७॥
चतुस्त्रिंशमध्ययनम्. गा४१-४३
व्याख्या-'ओहेणंति' ओपेन सामान्येन ॥ ४०॥ प्रतिज्ञातमाह
मूलम्-दसवाससहस्साई, काऊए ठिई जहन्निआ होई।
तिण्णुदही पलिओवम-असंखभागं च उक्कोसा ॥४१॥ व्याख्या-दशवर्षसहस्राणि कापोतायाः स्थितिर्जघन्यका भवति, त्रय उदधयः सागरोपमाणि 'पलियमसंखभागं चत्ति' पल्योपमासंख्येयभागश्चोत्कृष्टा । इयं च जघन्या रत्नप्रभायामुपरितनप्रस्तटनारकाणामेतावस्थितीनां, उत्कृष्टा च वालुकाप्रभायामेतावस्थितिकनारकाणां प्रथमप्रस्तट एवेति भावनीयम् ॥४१॥
मूलम्-तिण्णुदही पलिअमसंखभागो उ जहण्ण नीलठिई।
- दस उदही पलिओवम-असंखभागं च उक्कोसा ॥ ४२ ॥ व्याख्या-नीलाया जघन्या स्थितिर्वालुकाप्रभायां, उत्कृष्टा धूमप्रभायां प्रथमप्रस्तटे ॥४२॥ मूलम्-दस उदही पलिअमसंख-भागं जहन्निआ होई। तेत्तीससागराइं, उक्कोसा होई किण्हाए॥४३॥
व्याख्या-कृष्णाया जघन्या धूमप्रभायामितरा तु तमस्तमायां, किञ्चेह नारकाणामुत्तरत्र च देवादीनां द्रव्यले. श्यास्थितिरेव चिन्यते, तद्भावलेश्यानां तु परिवर्त्तमानत्वेनान्यथापि स्थितेः सम्भवात् । यदुक्तं-"देवाण नारयाण य, दबलेसा भवंति एआओ। भावपरावत्तीए, सुरणेरइआण छलेसा" ॥ ४३ ॥
UTR-3