________________
उत्तराध्ययन ॥३४८॥
गा४४-४६
मूलम्-एसा नेरइआणं, लेसाण ठिई उ वण्णिआ होई । तेण परं वोच्छामि, तिरिअमणुस्साण देवाणं॥ * चतुस्त्रिंश
मध्ययनम्. व्याख्या-'तेण परंति' ततः परम् ॥ ४४ ॥
(३४) मूलम्-अंतोमुहुत्तमद्धं, लेसाण ठिई जहिं जहिं जा उ।तिरिआण नराणं वा, वज्जित्ता केवलं लेसं ॥४५॥
व्याख्या-'अंतोमुहुत्तमद्धंति' अन्तर्मुहूर्ताद्धां अन्तर्मुहूर्त्तकालं लेश्यानां स्थितिजघन्योत्कृष्टा चेति शेषः, कासामित्याह-'जहिं जहिति' यत्र यत्र पृथिव्यादौ संमूछिममनुष्यादौ वा याः कृष्णाद्याः तुः पृत्तौ, तिरश्चां नराणां वा मध्ये सम्भवन्ति तासामित्यध्याहारः। लेश्याश्च पृथिव्यपवनस्पतिवाद्याश्चतस्रः, तेजोवायुविकलसंमूछिमेष्वाद्यास्तिस्रः, शेषेषु षट् । ततश्च सर्वासामप्यासां तिर्यग्मनुष्येषु अन्तर्मुहूर्त्तमानैव स्थितिः प्राप्तेत्याह-वर्जयित्वा केवलां शुद्धां लेश्यां शुक्ललेश्यामित्यर्थः ॥ ४५ ॥ अस्या एव स्थितिमाह
मूलम्-मुहुत्तद्धं तु जहन्ना, उक्कोसा होइ पुचकोडी उ ।
नवहिं वरिसेहिं ऊणा, नायबा सुक्कलेसाए ॥ ४६॥ व्याख्या-इह यद्यपि कश्चिदष्टवार्षिकः पूर्वकोट्यायुव्रतपरिणाममाप्नोति तथापि नैतावद्वयःस्थस्य वर्षपर्यायादक शुक्ललेश्यायाः सम्भव इति नवभिर्वरना पूर्वकोटिरुच्यते ॥ ४६॥
UTR-3