SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥३४५॥ चतुस्विंशमध्ययनम्, गा३४-३५ असंख्ययलोकाकाशप्रदेशपरिमाणाः तावन्तीति शेषो लेश्यानां भवन्ति स्थानानि प्रकर्षापकर्षकृतानि अशुभानां संक्ले. शरूपाणि शुभानां च विशुद्धिरूपाणीति सूत्रार्थः ॥ ३३ ॥ स्थितिमाहमूलम्--मुहुत्तद्धं तु जहन्ना, तेत्तीसं सागरा मुहुत्तहिआ।उकोसा होइ ठिई, नायवा किण्हलेसाए ॥३४॥ ___ व्याख्या-मुहूर्ताद्धे तु कोऽर्थोऽन्तर्मुहूर्तमेव जघन्या, त्रयस्त्रिंशत्सागरोपमाणि 'मुहुत्तहिअत्ति' इहोत्तरत्र च मुह. तशब्देनोपचारान्मुहूर्त्तदेश एवोक्तः ततश्चान्तर्मुहूर्त्ताधिकानि. उत्कृष्टा भवति स्थितिर्जातव्या कृष्णलेश्यायाः, इयं चास्याः स्थितिः सप्तमपृथ्व्यां ज्ञेया । इहान्तर्मुहूर्तशब्देन पूर्वोत्तरभवसम्बन्ध्यन्तर्मुहूर्तद्वयमुक्तं द्रष्टव्यं, एवमुत्तरत्रापि । जघन्या स्थितिस्तु सर्वासामासां तिर्यग्मनुष्येष्वेवावसेया ॥ ३४ ॥ __ मूलम्-मुहुत्तद्धं तु जहन्ना, दसउदही पलिअमसंखभागमब्भहिआ। उक्कोसा होइ ठिई, नायवा नीललेसाए ॥ ३५॥ व्याख्या-मुहूर्ताोऽन्तर्मुहर्त जघन्या, दश उदधयः सागरोपमाणि 'पलिअत्ति' पल्योपमं तस्यासंख्यभागेनाधिकानि उत्कृष्टा भवति स्थितिौललेश्यायाः। नन्वस्या धूमप्रभोपरितनप्रस्तटं यावत्सम्भवस्तत्र च पूर्वोत्तरभवान्तर्मुहर्तद्वयेनाधिकास्याः स्थितिः किं नोक्ता ? उक्तैव पल्योपमासंख्येयभागे एव तस्याप्यन्तर्मुहर्तद्वयस्यान्तर्भावात् , पल्यासंख्येयभागानां चाऽसंख्यभेदत्वादिहैतावन्मानस्यैवास्य विवक्षितत्वान्न विरोधः । एवमग्रेऽपि ॥ ३५॥ । UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy