________________
उत्तराध्ययन ॥३४४॥
चतुर्विंशमध्ययनम्.
गा२९-३३
मूलम् -पयणुकोहमाणे अ, मायालोभे अ पयणुए । पसंतचित्ते दंतप्पा, जोगवं उवहाणवं ॥ २९ ॥
तहा पयणुवाई य, उवसंते जिइंदिए। एयजोगसमाउत्ते, पम्हलेसं तु परिणमे ॥३०॥ व्याख्या-प्रतनुक्रोधमानः चः पूतौ माया लोभश्च प्रतनुको यस्येति शेषः, अत एव प्रशान्तचित्तो दान्तात्मा 'तहा पयणु' इत्यादि-तथा प्रतनुवादी खल्पभाषकः उपशान्तोऽनुद्भटत्वेनोपशान्ताकारः, शेषं प्राग्वत् ॥ ३० ॥ मूलम्-अदृरुद्दाणि वजित्ता, धम्मसुक्काणि झायए । पसंतचित्ते दंतप्पा, समिए गुत्ते य गुत्तिसु ॥३१॥
सरागे वीअरागे वा, उवसंते जिइंदिए । एअजोगसमाउत्ते, सुक्कलेसं तु परिणमे ॥ ३२॥ व्याख्या-आरौिद्रे वर्जयित्वा धर्मशुक्ले ध्यायति यः, कीदृशः सन्नित्याह-प्रशान्तचित्त इत्यादि, समितः समि तिमान् , गुप्तो निरुद्धाशुभयोगः 'गुत्तिसुत्ति' गुप्तिभिः, सरागे स च सरागोऽक्षीणानुपशान्तकषायो वीतरागस्तद्विपरितो वा उपशान्तो जितेन्द्रियः एतद्योगसमायुक्तः शुक्ललेश्यां तु परिणमेत् , विशिष्टलेश्यापेक्षं चैतल्लक्षणाभिधानं तेन न देवादिभिर्व्यभिचार इति सूत्रद्वादशकार्थः ॥ ३१ ॥ ३२ ॥ स्थानद्वारमाह| मूलम्-अस्संखेजाणोसप्पिणीण उसप्पिणीण जे समया । संखाईआ लोगा, लेसाणं डंति ठाणाई ३३
व्याख्या-असंख्येयानामवसर्पिणीनां तथोत्सर्पिणीनां ये समयाः कियन्त इत्याह-संख्यातीता लोकाः कोऽर्थः ?
UTR-3