SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥३४१॥ चतुस्विंशमध्ययनम्. गा२१-२२ विधो यदा एषामपि स्वस्थानतारतम्यचिन्तायां प्रत्येकं जघन्यादित्रयेण गुणना। एवं पुनः पुनस्त्रिभिर्गुणने सप्तविंशतिविधत्वादिभावनीयम् । उपलक्षणं चैतत् , एवं तारतम्यचिन्तायां हि संख्यानियमस्याभावात् । तथा च प्रज्ञापना"कण्हलेसाणं भंते ! कइविहं परिणामं परिणमइ ? गोयमा ! तिविहं वा नवविहं वा सत्तावीसइविहं वा एक्कासीइविहं वा तेआलादुसयविहं वा बहुं वा बहुविहं वा परिणाम परिणमइ । एवं जाव सुक्कलेसा" इति सूत्रार्थः ॥ २०॥ लक्षणद्वारमाहमूलम्-पंचासवप्पवत्तो, तीहिं अगुत्तो छसु अविरओ अ । तिवारंभपरिणओ, खुदो साहस्सिओ नरो ॥ २१ ॥ निद्धंधसपरिणामो, निस्संसो अजिइंदिओ। एअजोगसमाउत्तो, कण्हलेसं तु परिणमे ॥ २२॥ व्याख्या-पञ्चाश्रवप्रवृत्तः, त्रिभिः प्रक्रमान्मनोवाक्कायैरगुप्तः, षट्सु जीवनिकायेषु अविरतस्तदुपमईकत्वादिनेति शेषः, तीब्राः उत्कटाः स्वरूपतोऽध्यवसायतो वा आरम्भाः सावधच्यापारास्तत्परिणतस्तदासक्तः, क्षुद्रः सर्वस्याप्यहितैषी, सहसाऽनालोच्य प्रवर्त्तते इति साहसिकश्चौर्यादिदुष्कर्मकारीत्यर्थः, नरः उपलक्षणत्वात् स्यादिर्वा ॥ २१॥ 'निद्धंधसत्ति' ऐहिकामुष्मिकापायशङ्काविकलः परिणामो यस्य स तथा, 'निस्संसोत्ति' निस्त्रिंशो जीवान् निघ्नन् UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy