________________
चतुस्त्रिंशमध्ययनम्. (३४) गा२३-२४
उत्तराध्ययन मनागपि न शङ्कते, अजितेन्द्रियः, एतेऽनन्तरोक्तास्ते च ते योगाश्च व्यापारा एतद्योगास्तैः समायुक्तोऽन्वित एत॥३४२॥ द्योगसमायुक्तः कृष्णलेश्यां तुरेवकारार्थस्ततः कृष्णलेश्यामेव परिणमेत् । तद्व्यसाचिव्येन तथाविधद्रव्यसम्पर्कात्
स्फटिकमिव तद्पतां भजेत् । उक्तं हि-"कृष्णादिद्रव्यसाचिव्यात् , परिणामो य आत्मनः । स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रयुज्यते ॥१॥” इति ॥ २२ ॥ तथामूलम्-इस्सा-अमरिस-अतवो, अविज माया अहीरिया। गेही पओसे य सढे, पमत्ते रसलोलुए॥२३॥
मूलम्-सायगवेसए अ आरंभाविरओ खुद्दो साहस्सिओ नरो।
___ एअजोगसमाउत्तो, नीललेसं तु परिणमे ॥ २४ ॥ व्याख्या-ईर्षा च परगुणासहनं, अमर्षश्च रोषात्यन्ताभिनिवेशः, अतपश्च तपो विपर्ययोऽमीषां समाहारः । अविद्या कुशास्त्ररूपा, माया प्रतीता, अहीकता असदाचारगोचरो लज्जाभावः, गृद्धिर्विषयलाम्पट्यं, प्रदोषश्च प्रद्वेषः, | अभेदोपचाराचेह सर्वत्र तद्वान् जन्तुरेवमुच्यते । शठो धृष्टः, प्रमत्तः प्रकर्षेण जातिमदाद्यासेवनेन मत्तः प्रमत्तो रसेषु
लोलुपः लम्पटो रसलोलुपः ॥२३॥ सातं सुखं तद्वेशकश्च कथं मे सुखं स्यादिति बुद्धिमान् , आरम्भात् प्राण्युप२४ * मर्दादविरतः, शेषं प्राग्वत् ॥ २४ ॥
UTR-3