________________
उत्तराध्ययन ॥३३९॥
चतुस्त्रिंशमध्ययनम्. गा १५-१७
३
द्यानां यादृशको रस इति योगः, मधु मद्यविशेषो मैरेयं सरकस्तयोः समाहारे मधुमैरेयं तस्य वा रसो यादृशकः, अतो वरवारुण्यादिरसात् पद्माया रसः परकेण, अनन्तगुणत्वात्तदतिक्रमण वर्त्तते इति शेषः, अयं च किञ्चिदम्लः कषायो मधुरश्चेति भावनीयम् ॥ १४ ॥ मूलम्-खजूरमुद्दियरसो,खीररसो खंडसक्कररसो वा। एनोवि अणंतगुणो, रसो उसुक्काइ नायवो ॥१५॥ व्याख्या-अत्र मृवीका द्राक्षा, शेषं व्यक्तमिति सूत्रषट्कार्थः ॥ १५ ॥ गन्धमाह
मूलम्-जह गोमडस्स गंधो, सुणगमडस्स व जहा अहिमडस्स ।
एत्तो वि अणंतगुणो, लेसाणं अप्पसत्थाणं ॥ १६ ॥ व्याख्या-'अप्पसत्थाणंति' अप्रशस्तानां कृष्ण-नील-कापोतानाम् ॥ १६ ॥ मूलम्-जह सुरहिकुसुमगंधो, गंधवासाण पिस्समाणाणं। एत्तो वि अणंतगुणो, पसत्थलेसाण तिण्हंपि
व्याख्या-'गंधवासाणंति' गन्धाश्च कोष्टपुटपाकनिष्पन्ना वासाश्चेतरे गन्धवासाः, इह च गन्धवासाङ्गान्येवोपचारादेवमुक्तानि, तेषां पिष्यमाणानां चूर्ण्यमानानां यथा गन्ध इति प्रक्रमः । 'पसत्थलेसाणंति' प्रशस्तलेश्यानां तेजः-पम-शुक्लानाम् । इह चानुक्तोपि गन्धविशेषो लेश्यानां तारतम्येनावसेय इति सूत्रद्वयार्थः ॥ १७॥ स्पर्शमाह
UTR-3