________________
मध्ययनम्, गा ७१०
उत्तराध्ययन * मूलम्-हिंगुलधाउसंकासा, तरुणाइच्चसन्निभा। सुअतुंडपईवनिभा, तेउलेसा उ वण्णओ ॥७॥ ॥३३७॥
व्याख्या-इह धातुगैरिकादिः, 'सुअतुंड' इत्यादि-शुकस्य तुण्डं मुखं तच प्रदीपश्च तन्निभा रक्तेत्यर्थः ॥७॥ मूलम्-हरियालभेयसंकासा, हलिदाभेयसन्निभा। सणासणकुसुमनिभा, पम्हलेसा उ वण्णओ॥८॥
व्याख्या-हरितालस्य यो भेदो द्विधाभावस्तत्सङ्काशा, भिन्नस्य हि तस्य वर्णः प्रकृष्टः स्यादिति भेदग्रहणम् , हरिद्राभेदसन्निभा, सणो धान्यविशेषः-असनो बीयकस्तयोः कुसुमं तन्निभा पीतेत्यर्थः ॥ ८॥ मूलम्-संखंककुंदसंकासा, खीरधारासमप्पभा । रययहारसंकासा, सुक्कलेसा उ वण्णओ ॥९॥ ___ व्याख्या-शङ्खः प्रतीतः, अङ्को मणिविशेषः, कुन्दं कुन्दपुष्पं, तत्सङ्काशा, क्षीरधारासमप्रभा, पात्रस्थस्य हि तस्य तद्वशादन्यथात्वमपि स्यादितीह धाराग्रहणम् । शेष व्यक्तमिति सूत्रषट्कार्थः ॥९॥ रसानाह
मूलम्-जह कडुअतुंबगरसो, निंबरसो कडुअरोहिणिरसो वा।
एत्तोवि अणंतगुणो, रसो उ किण्हाइ नायवो ॥१०॥ व्याख्या-यथा कटुकतुम्बकरसो निम्बरसः कटुकरोहिणी त्वविशेषः तद्रसो वा यथेति सर्वत्र योज्यम् । इतो. प्यनन्तगुणोऽनन्तसंख्येन राशिना गुणितो रसस्तु कृष्णाया ज्ञातव्यः ॥१०॥
UTR-3