________________
उत्तराध्ययन
व्याख्या - निद्रादीनां स्वरूपं त्वेवम् - "सुहपडिबोहा निद्दा १ निहानिहा य दुक्खपडिबोहा २ । पयला ठिओ॥ ३२५ ॥ वविट्ठस्स ३ पयलपयला उ चंकमओ ४ ॥ १ ॥ दिणचिंतिअत्थकरणी, थीणद्धी अद्धचक्कि अद्धबलत्ति ५ ॥ " इदं निद्रापञ्चकम् ॥ ५ ॥ 'चक्खुमचक्खुओहिस्सत्ति' मकारोऽलाक्षणिकः, चक्षुश्चाचक्षुश्वावधिश्च चक्षुरचक्षुरवधीति समाहारस्तस्य, दर्शने इति दर्शनशब्दः प्रत्येकं योज्यः, ततश्चक्षुर्दर्शने चक्षुषा रूपसामान्यग्रहणे । अचक्षूंषीति नञः पर्युदासत्वाच्चक्षुः सदृशानि शेषेन्द्रियमनांसि तद्दर्शने तेषां स्वस्वविषयसामान्यावबोधे । अवधिदर्शने अवधिना रूपद्रव्याणां सामान्यग्रहणे । 'केवले अत्ति' केवलदर्शने च सर्वद्रव्य पर्यायाणां सामान्यज्ञाने आवरणं । एतच्च चक्षुर्दर्शनादिविषयत्वाच्चतुर्विधमत एवाह - एवमित्यनेन निद्रापञ्चविधत्वचक्षुर्दर्शनावरणादिचतुर्विधत्वलक्षणेन प्रकारेण तुः पूर्त्ती नवविकल्पं नवभेदं ज्ञातव्यं दर्शनावरणम् ॥ ६ ॥
m
o
१२
मूलम् - वेअणिअं पिअ दुविहं, सायमसायं च आहिअं । सायस्स उ बहू भेआ, एमेवासायस्सवि॥७॥ व्याख्या– वेदनीयमपि द्विविधं, सातं सुखं शारीरं मानसं च, इहोपचारात्तन्निमित्तं कर्माप्येवमुक्तं, असातं च तद्विपरीतं । 'सायस्स उत्ति' सातस्यापि बहवो भेदाः, न केवलं ज्ञानदर्शनावरणयोरित्यपिशब्दार्थः, बहुभेदत्वं चास्य तद्धेतूनामनुकम्पादीनां बहुत्वात् । एवमेवेति - बहव एव भेदा असातस्यापि दुःखशोकादीनां तद्धेतूनामपि बहुत्वादेवेति भावः ॥ ७ ॥
त्रयस्त्रिंशमध्ययनम्. गा ७
UTR-3