SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥३२४॥ त्रयात्रिंशमध्ययनम्. (३३) गा ३-६ दुर्गतेर्निष्क्रमितुकामस्यापि जन्तोर्निगडवत् प्रतिवन्धकतामित्यायुस्तदेव कर्म आयुष्कर्म तथैव च ॥ २॥ मूलम्-नामकम्मं च गोत्तं च, अंतरायं तहेव य । एवमेआई कम्माइं, अहेव उ समासओ ॥३॥ व्याख्या-नमयति गत्यादिविविधभावानुभवं प्रति जीवं प्रवणयति चित्रकर इव गजाश्चादिभावं प्रति रेखाकारमिति नामकर्म । गीयते शब्द्यते उच्चावचैः शब्दैः कुलालात् मृद्रव्यमिव जीवो यस्मादिति गोत्रम् । अन्तरा दातृग्राहकयोमध्ये भाण्डारिकवद्विघ्नहेतुत्वेनायते गच्छतीत्यन्तरायम् । कर्मेति सर्वत्र सम्बध्यते, एवममुना प्रकारेण एतानि कर्माण्यष्टैव, तुः पूर्ती, समासतः संक्षेपतो विस्तरतस्तु यावन्तो जीवास्तान्यपि तावन्तीत्यनन्तान्येवेति भावः ॥३॥ एवं कर्मणो मूलप्रकृतीः प्रोच्योत्तरप्रकृतीराहमलम-नाणावरणं पंचविहं, सुअं आभिणिवोहिअं। ओहिनाणं तइयं, मणनाणं च केवलं ॥४॥ __ व्याख्या-ज्ञानावरणं पञ्चविधं, तच कथं पञ्चविधमित्याशङ्कायामावार्यभेदादेवात्र आवरणस्य भेद इत्याशयेनावार्यस्य ज्ञानस्यैव भेदानाह-'सुअं' इत्यादि-॥४॥ मूलम्-निदा तहेव पयला, निहानिदा य पयलपयला य । तत्तो अ थीणगिद्धी उ, पंचमा होइ नायबा ॥५॥ चक्खुमचक्खुओहिस्त, दंसणे केवले अ आवरणे । एवं तु नवविगप्पं नायव्वं दसणावरणं ॥६॥ UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy