________________
उत्तराध्ययन ॥३२३॥
॥ अथ त्रयस्त्रिंशमध्ययनम् ॥
त्रयाविंशमध्ययनम्. गा१-२
॥ॐ॥ उक्तं द्वात्रिंशमध्ययनं, अथ कर्मप्रकृतिसंज्ञं त्रयस्त्रिंशमारभ्यते । अस्य चायमभिसम्बन्धोऽनन्तराध्ययने प्रमादस्थानान्युक्तानि, तैश्च कर्म बध्यते इति सम्बन्धस्यास्वेदमादिसूत्रम्मूलम्-अट्ठ कम्माई वोच्छामि, आणुपुत्विं जहक्कम जेहिं बद्धो अयं जीवो, संसारे परिअत्तइ ॥१॥
व्याख्या-अष्ट क्रियन्ते मिथ्यात्वाविरत्यादिहेतुमिर्जीवेनेति कर्माणि वक्ष्यामि, आनुपूर्व्या परिपाट्या । इयं च पश्चानुपूादिरपि स्यादित्याह-यथाक्रम क्रमानतिक्रमण । यैर्वद्धः श्लिष्टोऽयं प्रतिप्राणिखसंवेदनप्रत्यक्षो जीवः संसारे परिवर्त्तते, अपरापरपर्यायाननुभवन् भ्राम्यतीति सूत्रार्थः ॥ १॥ प्रतिज्ञातमाहमूलम्-नाणस्सावरणिजं, दसणावरणं तहा। वेअणिजं तहा मोहं, आउकम्मं तहेव य ॥२॥ ___ व्याख्या-ज्ञानस्य विशेषावबोधरूप आब्रियते सदप्याच्छाद्यतेऽनेन घनेनार्क इवेत्यावरणीयम् । दर्शनं सामान्यावबोधस्तदाब्रियतेऽनेन प्रतीहारेण नृपदर्शनमिवेति दर्शनावरणम् । तथा वेद्यते सुखदुःखतयाऽनुभूयते लिखमानमधुलिप्सासिधारावदिति वेदनीयम् । तथा मोहयति जानानमपि मद्यवद्विचित्तताजननेनेति मोहस्तम् । आयाति
UTR-3