________________
उत्तराध्ययन ॥३२६॥
त्रयास्त्रिंशमध्ययनम्.
गा८-१०
मूलम्-मोहणिजंपि दुविहं, दसणे चरणे तहा । दसणे तिविहं वुत्तं, चरणे दुविहं भवे ॥ ८॥
व्याख्या-मोहनीयमपि द्विविधं वेदनीयवत्, द्वैविध्यमेवाह-दर्शने तत्त्वरुचिरूपे, चरणे चारित्रे, ततो दर्शनमोहनीयं चारित्रमोहनीयं चेत्यर्थः । तत्र दर्शने दर्शनविषयं मोहनीयं त्रिविधं उक्तं, चरणे चरणविषयं द्विविधं भवेत् ॥८॥दर्शनमोहनीयत्रैविध्यमाहमूलम्–सम्मत्तं चेव मिच्छत्तं, सम्मामिच्छत्तमेव य । एआओ तिण्णि पयडीओ, मोहणिजस्स देसणे __ व्याख्या-सम्यक्त्वं शुद्धदलिकरूपं यदुदयेपि तत्त्वरुचिः स्यात् १ । 'चेव' पूर्ती, मिथ्याभावो मिथ्यात्वमशुद्धदलिकरूपं यतोऽतत्त्वेषु तत्त्वबुद्धिर्जायते २ । सम्यग्मिथ्यात्वं शुद्धाशुद्धदलिकरूपं यतो जन्तोरुभयखभावत्वं स्यात् ३। इह सम्यक्त्वाद्या जीवधर्मास्तद्धेतुत्वाच दलिकानामपि तद्यपदेशः । एतास्तिस्रः प्रकृतयो मोहनीयस्य दर्शने
दर्शनविषयस्य ॥९॥ * मूलम्-चरित्तमोहणं कम्मं, दुविहं तु विआहिअं| कसायवेअणिजं तु, नोकसायं तहेव य ॥ १०॥
व्याख्या-चरित्रे मुह्यत्यनेनेति चरित्रमोहनं कर्म, येन जानन्नपि चारित्रफलादि न तत् प्रतिपद्यते, तत्तु द्विविधं | व्याख्यातं । द्वैविध्यमेवाह-कषायाः क्रोधाद्यास्तद्रूपेण वेद्यतेऽनुभूयते यत्तत्कषायवेदनीयं, चः समुच्चये, नोकषाय
UTR-3