________________
उत्तराध्ययन ॥३२ ॥
द्वात्रिंशमध्ययनम्.
गा १०९११०
व्याख्या-स प्रहीणतृष्णो वीतरागो भवति, तृष्णा हि लोभस्तत्क्षये च क्षीणमोहत्वावाप्तिरिति, तथा कृतसर्वकृत्य इव कृतसर्वकृत्यः प्राप्तप्रायत्वादनेन मुक्तेः क्षपयति ज्ञानावरणं क्षणेन, तथैव यत् दर्शनमावृणोति तत् दर्शनावरणमित्यर्थः, यचान्तरायं दानादिविषयं विघ्नं प्रकरोति कर्मान्तरायाख्यमित्यर्थः ॥ १०८ ॥ यत्क्षया-च के गुणमवाप्नोतीत्याह
मूलम्-सवं तओ जाणइ पासई अ, अमोहणे होइ निरंतराए ।
अणासवे झाणसमाहिजुत्ते, आउक्खए मोक्खमुवेइ सुद्धे ॥ १०९ ॥ व्याख्या-सर्व ततो ज्ञानावरणीयादिक्षयाज्जानाति विशेषरूपत्वेनावगच्छति, पश्यति च सामान्यरूपतया, तथाऽमोहनो मोहरहितो भवति, तथा निरन्तरायः, अनाश्रवः कर्मबन्धहेतुरहितः, ध्यानं शुक्लध्यानं तेन समाधिः परमखास्थ्यं ध्यानसमाधिस्तेन युक्तो ध्यानसमाधियुक्तः, आयुषः उपलक्षणत्वात् नामगोत्रवेद्यानां च क्षयः भायुः क्षयस्तस्मिन् सति मोक्षमुपैति शुद्धो विगतकर्ममल इति सूत्रत्रयार्थः ॥ १०९ ॥ मोक्षगतश्च यादृशः स्यात्तदाह
मूलम्-सो तस्स सबस्स दुहस्स मुक्को, जं बाहई सययं जंतुमेअं।
दीहामयविप्पमुक्को पसत्थो, तो होइ अचंतसुही कयत्थी ॥ ११० ॥
UTR-3