________________
उत्तराध्ययन
॥ ३१९ ॥
१२
ब्राट्कामुकशुना-मेकस्यां प्रमदातनौ । कुणपं कामिनी भक्ष्य - मिति तिस्रो विकल्पनाः ॥ १ ॥ " ततो वीतरागद्वेषस्य नैवामी मनोज्ञताममनोज्ञतां वा कुर्युरिति, तदभावे च विषयसेवाक्रोशदानादिप्रयोजनानुत्पत्तेर्नैवानर्थोत्पत्तिः स्यादिति सूत्रषट्कार्थः ॥ १०६ ॥ तदेवं रागद्वेषयोस्तदुपादानहेतोर्मोहस्य चोद्धरणोपायानुक्त्वोपसंहारमाह
मूलम् — एवं ससंकष्पविकप्पणासु, संजायए समयमुवट्ठिअस्स ।
अत्थे अ संकप्पओ तओ से, पहीअए कामगुणेसु तन्हा ॥ १०७ ॥
व्याख्या – एक्मुक्तनीत्या खस्यात्मनः सङ्कल्पा रागद्वेषमोहरूपा मध्यवसायास्तेषां विकल्पनाः सकलदोषमूलत्वादिपरिभावनाः स्वसङ्कल्पविकल्पनास्तासु उपस्थितस्योद्यतस्य सञ्जयते समता माध्यस्थ्यमितियोगः । अर्थाश्चेन्द्रियार्थान् रूपादीन् सङ्कल्पयतश्चिन्तयतो यथा नैते कर्मबन्धहेतवः किन्तु रागादय एवेति । यद्वा अर्थान् जीवादीन् चस्य भिन्नक्रमत्वात् सङ्कल्पयतश्च शुभध्यानविषयतयाध्यवस्यतः, ततः इति समतायाः 'से' तस्य साधोः प्रहीयते कामगुणेषु तृष्णाभिलाषः ॥ १०७ ॥ ततः स किं करोतीत्याह
मूलम् - स वीरागो कयसवकिच्चो, खवेइ नाणावरणं खणेणं । तहेव जं दंसणमावरेइ, जं चंतरायं पकरेइ कम्मं ॥ १०८ ॥
द्वात्रिंशमध्ययनम्.
गा
१०८
UTR-3