________________
उत्तराध्ययन ॥३२१॥
York
द्वात्रिंश
मध्ययनम्. गा १११
व्याख्या-स मोक्षं प्राप्तः तस्माजातिजरामरणादिरूपत्वेन प्रोक्तात् सर्वस्मात् दुःखात्-सर्वत्र सुव्यत्ययेन षष्ठी, मुक्तः पृथग्भूतो यत्कीरशमित्याह-यहुःखं बाधते सततं जन्तुमेनं प्रत्यक्षं, दीर्घाणि स्थितितः प्रक्रमात् कर्माणि तान्यामया इव विविधवाधाविधायितया दीर्घामयास्तेभ्यो विप्रमुक्तो दीर्घामयविप्रमुक्तः, अत एव प्रशस्तः प्रशंसाहे: 'तो' इति-ततो दीर्घामयविप्रमोक्षात् भवत्सत्यन्तसुखी तत एव च कृतार्थ इति सूत्रार्थः ॥ ११ ॥ अध्ययनार्थीपसंहारमाह
मूलम्-अणाइकालप्पभवस्स एसो, संवस्स दुक्खस्स पमोक्खमग्गो।
विआहिओ जं समुवेच्च सत्ता, कमेण अञ्चंतसुही हवंतित्ति बेमि ॥ १११ ॥ | व्याख्या-अनादिकालप्रभवस्य एषोऽनन्तरोक्तः सर्वस्य दुःखस्य प्रमोक्षमार्गः प्रमोक्षोपायो व्याख्यातोऽयं समुपेत्य सम्यकप्रतिपद्य सत्त्वाःक्रमेणोत्तरोत्तरगुणावाप्तिरूपेण अत्यन्तसुखिनो भवन्तीति सूत्रार्थः॥१११॥ इति ब्रवीमीति प्राग्वत्
। इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्याय
श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ द्वात्रिंशत्तममध्ययनं सम्पूर्णम् ॥ ३२ ॥d
UTR-3