________________
उत्तराध्ययन ॥३१२॥
द्वात्रिंशमध्ययनम्. (३२) गा८९-९१
हेउं अमणुण्णमाहु ॥ ८८ ॥ भावेसु जो गिद्धिमुवेइ तिवं, अकालिअं पावइ से विणासं।
रागाउरे कामगुणेसु गिद्धे, करेणुमग्गावहिएव नागे ॥ ८९ ॥ व्याख्या-'करेणु' इत्यादि-करेण्या करिण्या मार्गेण निजपथेनापहृत आकृष्टः करेणुमार्गापहृतो नाग इव हस्तीव, स हि मदोन्मत्तोपि सन्निकृष्टां करिणीं दृष्ट्वा तत्सङ्गमोत्सुकस्तन्मार्गानुगामितया नृपा_यते, ततो युद्धादौ विनाशमाप्नोतीति । ननु चक्षुरादीन्द्रियवशादेव गजस्य प्रवृत्तिरिति कथमस्येह दृष्टान्तत्वं ? उच्यते-सत्यमेतत् परं मनःप्राधान्यविवक्षया त्वेतदपि ज्ञेयम् । यदिवा तथाविधकामदशायां चक्षुरादीन्द्रियव्यापाराभावेपि मनसः प्रवृ. त्तिरिति न दोषः ॥ ८९ ॥ मूलम्-जे आवि दोसं समुवेइ तिवं, तंसि क्खणे से उ उवेइ दुक्खं । दुइंतदोसेण सपण जंतू,
न किंचि भावं अवरज्झई से ॥ ९० ॥ एगंतरत्तो रुइरंसि भावे, अतालिसे से कुणई
पओसं । दुक्खस्स संपीलमुवेइ बाले, न लिप्पई तेण मुणी विरागो ॥ ९१ ॥ व्याख्या-'अतालिसेत्ति' अताशेऽनीशे भावे भावविषये वस्तुनि स करोति प्रद्वेष, क्कायं ममाधुना स्तुतिपथमागत इत्यादिकम् ॥ ९१ ॥
UTR-3