________________
उत्तराध्ययन
द्वात्रिंशमध्ययनम्. गा८६-८८
विसोगो, एएण दुक्खोहपरंपरेण । न लिप्पई भवमज्झे वि संतो, जलेण वा पुक्खरिणीपलासं ॥ ८६ ॥ ५॥
मणस्स भावं गहणं वयंति, तं रागहेउं तु मणुण्णमाहु ।
तं दोस हेउं अमणुण्णमाहु, समो अ जो तेसु स वीअरागो॥ ८७॥ व्याख्या-मनसश्चेतसो भावोऽभिप्रायः स्मरणादिगोचरस्तं ग्रहणं ग्राह्यं वदन्ति, चक्षुरादीन्द्रियाविषयत्वात्तस्य, तं भावं मनोशं मनोज्ञरूपादिविषयं रागहेतुमाहुः, तं अमनोज्ञं अमनोज्ञरूपादिविषयं द्वेषहेतुमाहुः, समश्च यस्तयोर्मनोज्ञामनोज्ञरूपादिविषयाभिप्राययोः स वीतरागः । एवमुत्तरग्रन्थोपि भावविषयरूपाद्यपेक्षया व्याख्ययः । यद्वा खप्नकामदशादिषु भावोपनीतो रूपादिविषयोपि भाव उक्तः स मनसो ग्राह्यः, खनकामदशादिषु हि मनसः एव केवलस्य व्यापार इति । यदि वाऽभीष्टानामारोग्यधनखजनपरिजननन्दनराज्यादीनामनिष्टानां च रोगरिपुतस्करदारिद्रयादीनां संयोगवियोगोपायचिन्तनरूपो भाव इह ग्राह्यः, स चाभीष्टवस्तुविषयो मनोजस्तदितरगोचरः पुनरमनोज्ञ इति ॥ ८७ ॥ मूलम्-भावस्स मणं गहणं वयंति, मणस्स भावं गहणं वयंतिारागस्स हेडं समणुण्णमाहु, दोसस्स
UTR-3