SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥२९८॥ द्वात्रिंशमध्ययनम्. (३२) गा २९ हेतुभूतेन उत्पादने उपार्जने रक्षणं च अपायेभ्यः सन्नियोगश्च स्वपरप्रयोजनेषु सम्यग्व्यापारणं रक्षणसन्नियोगं तस्मिन् 'वएत्ति' व्यये विनाशे वियोगे विरहे सर्वत्र सुरूपवस्तुन इति गम्यते, क सुखं ? न कापीति भावः, से तस्य रूपानुरागिणः । अयं भावः-सुरूपकलत्र-करि-तुरग-वस्त्रादीनामुत्पादनाद्यर्थ तेषु तेषु क्लेशहेतुषूपायेषु प्रवर्त्तमानो दुःखमेवानुभवति रूपानुरागी। पाठान्तरे वा ["रूवाणुरागेण" इति रश्यते, तत्र रूपानुरागण हेतुना यः परिग्रहस्तेन शेष प्राग्वत् ] ननु रूपवतामुत्पादनादिषु सुखं मा भूत् , सम्भोगकाले तु भावीत्याशंक्याह-सम्भोगकाले चोपभोगप्रस्तावेऽपि अतृप्तिलामे तृप्तिप्राप्त्यभावे व सुखमिति सम्बन्धः । बहुविधरूपदर्शनेऽपि नहि रागिणां तृप्तिरस्ति । यदुक्तं"न जातु कामः कामाना-मुपभोगेन शाम्यति । हविषा कृष्णवर्मेव, भूय एवाभिवर्द्धते ॥१॥". ततोऽधिकाधिकेच्छया खिद्यत एव रागी, न तु सुखी स्यादिति भावः ॥ २७ ॥ ततस्तस्यापरापरदोषपरम्परावाप्तिमाह मूलम्-हवे अतित्ते अपरिग्गहे अ, सत्तोवसत्तो न उवेइ तुहि। अतुट्टिदोसेण दुही परस्स, लोभाविले आययई अदत्तं ॥ २९ ॥ व्याख्या-रूपे अतृप्तः चस्य भिन्नक्रमत्वात् परिग्रहे च विषयमूर्छालक्षणे सक्तः सामान्येनैवासक्तिमान् , उपसक्तश्च गाढमासक्तः, ततः सक्तश्च पूर्वमुपसक्तश्च पश्चात् सक्तोपसक्तो नोपैति तुष्टिं, तथा च अतुष्टिरेव दोषोऽतुष्टिदोषः UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy