________________
उत्तराध्ययन ॥ २९९ ॥
१२
तेन दुःखी यदि ममेदमिदं च रूपवद्वस्तु स्यात्तदा वरमित्याकांक्षातोऽतीव दुःखवान् सन् परस्य सम्बन्धि रूपवद्वस्त्विति गम्यते, लोभाविलो लोभकलुष आदत्ते अदत्तं ॥ २९ ॥ ततश्च -
मूलम् - तहाभिभूअस्स अदत्तहारिणो, रूवे अतित्तस्स परिग्गहे अ । मायामु वडइ लोभदोसा, तत्थावि दुक्खा न विमुच्चई से ॥ ३० ॥
व्याख्या - तृष्णाभिभूतस्य लोभपराजितस्य तत एवादत्तारिणो रूपे रूपविषये यः परिग्रहो मूर्च्छारूपस्तस्मि न्निति योगः, चस्य भिन्नक्रमत्वादतृप्तस्य च, मायाप्रधानं 'मोसंति' मृषाऽलीकभाषणं मायामृषा वर्द्धते, कुतः ? इत्याह- लोभदोषात्, लुब्धो हि परखमादत्ते, आदाय च तद्गोपनाय मायया मृषां वदति । तदनेन लोभ एव सर्वाश्रवाणामपि मूलहेतुरिति सूचितम् । रागप्रक्रमेपि च यदिह लोभाभिधानं तद्रागेपि लोभांशस्यैवातिदुष्टताख्यापनार्थम् । तत्रापि को दोषः १ इत्याह-तत्रापि मृषाभाषणेपि दुःखान्न विमुच्यते सः, किन्तु दुःखभाजनमेव स्यादिति भावः ॥ ३० ॥ दुःखाविमोक्षमेव भावयति
मूलम् - मोसस्स पच्छाय पुरत्थओ अ, पओगकाले अ दुही दुरंते । एवं अदत्ताणि समाययंतो, रूवे अतित्तो दुहिओ अणिस्सो ॥ ३१ ॥
द्वात्रिंश
मध्ययनम्. गा ३०-३१
UTR-3