SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन एकविंशमध्ययनम्. गा २२-२३ परमार्थो मोक्षस्तस्य पदानि सम्यकदर्शनादीनि तेषु तिष्ठति, 'छिन्नशोकः' 'अममः' भाकशनः इमानि प्राणि पदानि मिथो हेतुतया व्याख्येयानि ॥ २१॥ मूलम्-विवित्तलयणाणि भइज्ज ताई, निरूवलेवाइं असंथडाइं। इसीहिं चिण्णाइं महायसेहि, कायेण फासेज परीसहाइ ॥ २२ ॥ व्याख्या-विविक्तलयनानि ख्यादिरहितोपाश्रयान् 'भइजत्ति' भजति, त्रायी, विविक्तत्वादेव निरुपलेपानि भावतोऽभिष्वारहितानि द्रव्यतस्तदर्थ नोपलिप्सानि, असंस्कृतानि बीजादिभिरव्याप्तानि अत एव ऋषिभिश्चीर्णानि सेवितानि महायशोभिः, तथा कायेन 'फासेजत्ति' स्पृशति सहते परीषहान् ॥ २२ ॥ ततः स कीदृशोऽभूदित्याह मूलम्-स नाणनाणोवगए महेसी, अणुत्तरं चरिउं धम्मसंचयं । अणुत्तरेनाणधरे जसंसी, ओभासइ सूरिए वंतलिक्खे ॥ २३ ॥ व्याख्या-स समुद्रपालर्षिानं श्रुतज्ञानं तेन ज्ञानमवबोधः प्रक्रमाक्रियाकलापस्य तेनोपगतो युक्तो ज्ञानज्ञानोपगतो महर्षिः, अनुत्तरं चरित्वा धर्मसंचयं क्षात्यादिधर्मसंचयं, 'अणुत्तरेनाणधरेत्ति' एकारस्यालाक्षणिकत्वात् अनुदात्तरज्ञानं केवलाई तद्धरो यशखी अवभासते जगति प्रकाशते सूर्य इवान्तरिक्षे इति त्रयोदशसूत्रार्थः ॥ २३ ॥ उप संहारपूर्व तस्यैव फलमाह UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy