________________
उत्तराध्ययन ॥ २७॥
एकविंशमध्ययनम् गा २०-२१
३
व्याख्या-'मेरुष' इत्यादि-मेरुर्वातेनेव परीषहादिनाऽकम्पमानः, 'आयगुत्तेत्ति' गुप्तात्मा, अनेन सूत्रेण परीषहसहनोपाय उक्तः ॥ १९ ॥ किञ्च
मूलम्-अणुण्णए नावणए महेसी, नयावि पूअं गरीहं च संजए।
___से उजुभावं पडिवज संजये, निवाणमग्गं विरए उवेइ ॥ २० ।। व्याख्या-अनुन्नतो नावनतो महर्षिः, न चापि पूजां गहीं च प्रतीति शेषः, 'संजएत्ति' सजेत्सङ्गं कुर्यात् । तत्रानुन्नतः पूजां प्रति, अनवनतश्च गहाँ प्रति, 'से' इति स एवमात्मानुशासकः, ऋजुभावं प्रतिपद्य संयतो निर्वाणमार्ग सम्यग् ज्ञानादिकं विरतः सन्नुपैति प्राप्नोति । तत्कालापेक्षया वर्तमाननिर्देशः ॥ २० ॥ ततः स कीदृशः सन् किं करोति ? इत्याह
मूलम्-अरइरइसहे पहीणसंथवे, विरए आयहिए पहाणवं ।
परमट्ठपएहिं चिटुई, छिन्नसोए अममे अकिंचणे ॥ २१ ॥ व्याख्या-अरतिरती संयमासंयमविषये सहते ताभ्यां न बाधते इत्यरतिरतिसहः, प्रहीणः संस्तवः पूर्वपश्चात्प* रिचयरूपो यस्य सः तथा, विरत आत्महित इति स्पष्टं, प्रधानः संयमो मुक्तिहेतुत्वात्स यस्यास्त्यसौ प्रधानवान् ,
UTR-S