________________
उत्तराध्ययन
एकविंशमध्ययनम्.
(२१) गा १७-१९
मूलम् -परीसहा दुविसहा अणेगे, सीदंति जत्था बहुकायरा नरा।
से तत्थ पत्ते न वहिज भिक्खू , संगामसीसे इव नागराया ॥ १७॥ व्याख्या-परीषहा दुर्विषहा दुस्सहा अनेके उद्यन्तीति योगः, सीदन्ति संयम प्रति शिथिलीभवन्ति 'जत्था'इति यत्र येषूपसर्गेषु परीषहेषु च सत्सु बहु भृशं कातराः नराः, से' इत्यथ तत्र तेषु प्राप्तो नव्यथेत न सत्त्वाचलेद्भवान् भिक्षुः सन् सङ्ग्रामशीर्ष इव नागराजः॥ १७॥
मूलम्-सीतोसिणा दंसमसाय फासा, आयंका विविहा फुसंति देहं ।
___ अकुक्कुओ तत्थऽहियासएजा, रयाई खेवेज पुरेकडाइं ॥ १८ ॥ व्याख्या-शीतोष्णदंशमशकाः, च-शब्द उत्तरत्र योयते, स्पर्शास्तृणस्पर्शादयः, आतङ्काश्च विविधाः स्पृशन्ति उपतापयन्ति देहं भवत इति गम्यं । 'अकुक्कुओत्ति' कुत्सितं कूजति कुकूजो न तथा अकुकूजस्तत्र शीतादिस्पर्शनेऽधिसहेत, अनेन चानन्तरसूत्रोक्त एवार्थः स्पष्टतार्थमन्वयेनोक्तः । ईदृशश्च सन् रजांसि जीवमालिन्यहेतुतया कर्माणि 'खेवेजत्ति' क्षिपेत् पुराकृतानि ॥ १८॥ मूलम्-पहाय रागं च तहेव दोसं, मोहं च भिक्खू सययं विअक्खणो।
मेरुव वाएण अकंपमाणो, परीसहे आयगुत्ते सहेजा ॥ १९ ॥
UTR-3