________________
उत्तराध्ययन
॥ २५ ॥
= A
१२
निति सर्वत्र गम्यते । तथा वचो योगमर्थादशुभं श्रुत्वा नाऽसभ्यं 'आहुति' आर्षत्वाद्र्यात् ॥ १४ ॥ तर्हि किं कुर्यादित्याह
मूलम् — उवेहमाणो उ परिवएज्जा, पिअमप्पिअं सब तितिक्खएजा । न सब सवत्थऽभिरोअइज्जा, न यावि पूअं गरहं च संजए ॥ १५ ॥
व्याख्या - उपेक्षमाणः कुवचनवक्तारमवगणयन् परिव्रजेत् तथा प्रियमप्रियं सर्वे तितिक्षेत सहेत, न सर्व वस्तु सर्वत्र सर्वस्थानेऽभिरोचयेत्, यथादृष्टाभिलाषुको माभूदिति भावः । न चापि पूजां, गह च परनिन्दां, अभिरोचयेदिति योगः ॥ १५ ॥ ननु भिक्षोरपि किमन्यथाभावः सम्भवति ? यदेवमात्मानुशास्यते इत्याह
मूलम् - अणेग छंदा मिह माणवेहिं, जे भावओ संपकरेइ भिक्खू ।
भयभेरवा तत्थ उइंति भीमा, दिवा मणुस्सा अदुवा तिरिच्छा ॥ १६ ॥ व्याख्या - अनेके छन्दा अभिप्राया भवन्तीति गम्यं, 'मिहत्ति' मकारोऽलाक्षणिकः, इह जगति मानवेषु । याननेकछन्दान् भावतश्चित्तवृत्या सम्प्रकरोति भृशं विधत्ते, 'भिखुत्ति' अपेर्गम्यत्वाद्धिक्षुरपि कर्मवशगः, तत एवेत्थमात्मानुशास्यते इति भावः । किञ्च भयेन भयजनकत्वेन भैरवा भीषणा भयभैरवाः तत्रेति व्रतप्रतिपत्तौ उद्यन्ति उदयं यान्ति भीमा रौद्राः, अस्य च पुनः कथनमतिरौद्रत्वख्यापकं, दिव्या मानुष्यका अथवा तैरश्वा उपसर्गाः इति शेषः ॥ १६ ॥ तथा
एकविंशमध्ययनम्. गा १५-१६
UTR-3