________________
उत्तराध्ययन ॥ २४ ॥
एकविंशमध्ययनम्
गा१३-१४
व्याख्या-अहिंसां सत्यमस्तैन्यकं च ततश्च ब्रह्म ब्रह्मचर्य अपरिग्रहं च प्रतिपद्येवं पञ्च महाव्रतानि चरेदासेवेत, न तु स्वीकारमात्रेणैव तिष्ठेदित्यर्थः । धर्म श्रुतचारित्ररूपं जिनदेशितं 'विऊत्ति' विद्वान् भवान् हे आत्मन् ! ॥१२॥
मूलम्-सवेहिं भूएहिं दयाणुकंपी, खंतिक्खमे संजयवंभयारी।
सावजजोगं परिवजयंतो, चरेज भिक्खू सुसमाहि-इंदिए ॥ १३ ॥ व्याख्या-सर्वेषु भूतेषु दयया हितोपदेशरूपया रक्षणरूपया च अनुकम्पनशीलो दयानुकम्पी, क्षान्त्या न त्वशक्त्या क्षमते दुर्वचनादीति शान्तिक्षमः, संयतः सम्यगू यतः स चासौ ब्रह्मचारी च संयतब्रह्मचारी, पूर्व व्रतप्रतिपत्याऽऽगतेऽपि ब्रह्मचारीति पुनः कथनं ब्रह्मचर्यस्य दुर्द्धरत्वज्ञप्त्यै ॥ १३॥ मूलम् कालेण कालं विहरिज रहे, बलाबलं जाणिअ अप्पणो अ।
सीहो व सदेण न संतसिज्जा, वयजोग सुच्चा ण असब्भमाहु ॥ १४ ॥ व्याख्या-कालेन पादोनपौरुष्यादिना, कालमिति कालोचितं प्रत्युप्रेक्षणादि कृत्यं, कुर्वन्निति शेषः । विहरेत् राष्ट्र मण्डले उपलक्षणत्वाद्रामादौ च । बलाबलं सहिष्णुत्वासहिष्णुत्वरूपं ज्ञात्वाऽऽत्मनो यथा यथा संयमयोगहानिर्न स्यात्तथा तथेति भावः । अन्यच सिंह इव शब्देन प्रक्रमाद्भूयोत्पादकेन न संत्रस्येत् नैव सत्वाचलेत हे आत्मन् ! भवा
UTR-3