________________
उत्तराध्ययन ॥२३॥
एकविंशमध्ययनम् गा१०-१२
मूलम्-संबुद्धो सो तहिं भयवं, परमं संवेगमागओ।आपुच्छऽम्मापिअरो, पवए अणगारिअं॥१०॥ ___ व्याख्या-एवं ध्यायन् सम्बुद्धः समुद्रपालः 'तर्हि' तत्र प्रासादालोकने, आपृच्छय मातापितरौ 'पवएत्ति' प्रात्राजित् प्रतिपेदेऽनगारितामिति सूत्रदशकावयवार्थः, शेषं व्यक्तं, एवमग्रेपि॥ १०॥ प्रव्रज्य च यथायं आत्मानमनुशासितवान् यथा वा प्रावर्त्तत तथाहमूलम्-जहित्तु संगं च महाकिलेसं, महंतमोहं कसिणं भयावहं ।
परिआयधम्म चऽभिरोयइज्जा, क्याणि सीलाणि परीसहे अ॥ ११ ॥ व्याख्या-हित्वा त्यक्त्वा सङ्गं खजनादिसम्बन्धं, चः पृत्तौं, महाक्लेशं महादुःखं, महान्मोहः स्यादिविषयोऽज्ञानरूपो वा यस्मात् स महामोहस्तं, कृत्यं सर्व, कृष्णं वा कृष्णलेश्याहेतुत्वात् , अत एव विवेकिनां भयावहं, पर्यायो व्रतपर्यायस्तत्र धर्मो महाव्रतादिः पर्यायधर्मस्तं, चः पूत्तौं, अभिरोचयेद्भवान् हे आत्मन् ! इति प्रक्रमः । पयायधमेमेव विशेषादाह-व्रतानि महाव्रतानि, शीलान्युत्तरगुणरूपाणि, परीपहानिति परीषहसहनानि चाभिरोचयेदिति योगः॥ ११॥ तदनु यत्कार्य तदाहमूलम्-अहिंस सच्चं च अतेणगं च, तत्तो य बंभं अपरिग्गहं च ।
पडिवजिआ पंच महब्बयाई, चरिज धम्मं जिणदेसि विऊ ॥ १२ ॥
UTR-3